________________
४१३ शतक
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
देश रत्नप्रभादिघूत्पादः लेश्याश्च सू ४७२
॥५९९॥
हो पोरगलपलक्यानवाश्रित्य लेसा उपवन समुग्यापति
कर्मप्रकृतिप्ररूपणार्थोऽष्टमः ८, 'अणगारे केयाघडिय'त्ति अनगारो-भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिय'त्ति रज्जुबद्धघटिकाहस्तः सन् विहायसि ब्रजेदित्याद्यर्थप्रतिपादनार्थो नवमः ९,'समुग्धाए'त्ति समुद्घातप्रतिपादनार्थो दशम इति । तत्र प्रथमोदेशके किंञ्चिल्लिख्यते-केवइया काउलेसा उववर्जति'त्ति रत्नप्रभापृथिव्यां कापोतलेश्या एवोत्प- द्यन्ते न कृष्णलेश्यादय इति कापोतलेश्यानेवाश्रित्य प्रश्नः कृत इति । 'केवइया कण्हपक्खिए'इत्यादि, एषां च | लक्षणमिदं-"जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु अहिगे पुण कण्हपक्खीया ॥१॥" [येषामपार्धः पुद्गलपरावतः शेषः संसारः ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१॥] इति । 'चक्खुदंसणी न उववजंति'त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुदर्शनिनः कथमुत्पद्यन्ते ?, उच्यते, इन्द्रियानाश्रि तस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, 'इत्थीवेयगे'त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, 'सोइंदिओवउत्ता'इत्यादि श्रोत्राद्युपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ता उववजंति'त्ति नोइन्द्रियं-मनस्तत्र च यद्यपि मनःपर्यायभावे द्रव्यमनो नास्ति तथाऽपि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्ते!इन्द्रियोपयुक्ता उत्पद्यन्त | इत्युच्यत इति, 'मणजोगी'त्यादि मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते, उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति, 'कायजोगी उववज्जति'त्ति सर्वसंसारिणां काययोगस्य सदैव भावादिति ॥ अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह-'इमीसे ण'मित्यादि, 'असन्नीन उववदृति'त्ति उद्धर्तना हि परभवप्रथसमये स्यात् न च नारका अस-|
॥५९९॥
RECENTER
Jain Education in matonal
For Personal & Private Use Only
www.jainelibrary.org