SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ सिद्धराशिनाधिका भवन्तीति, भवन्ति चात्र गाथा:-"कोडीसहस्सपुहुत्तं जईण तो थोवियाओं चरणाया । णाणायाऽणतगुणा पडुच्च सिद्धे य सिद्धाओ ॥१॥ होंति कसायायाओऽणतगुणा जेण ते सरागाणं । जोगाया भणियाओ अयो गिवजाण तो अहिया ॥२॥ जं सेलेसिगयाणवि लद्धी विरियं तओ समहियाओ। उवओगदवियदसण सबजिया णं ततो ६ अहिया ॥३॥” इति ॥ अथात्मन एव स्वरूपनिरूपणायाह-'आया भंते ! नाणे'इत्यादि, आत्मा ज्ञानं योऽयमा-8 त्माऽसौ ज्ञानं न तयोर्भेदः अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरं तु-आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वभावत्वात् , ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ज्ञानस्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषात् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि | शुक्ल पश्यति तदा किमियं पताका किमियं बलाका ? इत्येवं प्रतिनियतगुणिविषयोऽसौ, नापि धर्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवाभेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वादतः कथश्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति, इह चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्र १ यतीनां कोटीसहस्रपृथक्त्वं ततः स्तोकाश्चरणात्मानः ज्ञानात्मानोऽनन्तगुणाः सिद्धाः सिद्धान् प्रतीय ॥१॥ कषायात्मानोऽन-| न्तगुणा भवन्ति यतस्ते सरागाणां ततो योगात्मानोऽधिका अयोगिवा यतो भणिताः॥२॥ यच्छैलेशीगतानामपि लब्धिवीर्य ततस्ते सम-| |धिकाः । उपयोगद्रव्यदर्शनात्मानः सर्वे जीवास्ततोऽधिकाः ॥ ३॥ SARKALIGARHIRGAMACHAR Jain Education HAR For Personal & Private Use Only Janelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy