________________
व्या० ९९
| तेइंदिय जाव वैमाणियाणं जहा नेरइयाणं । आया भंते ! दंसणे अने दंसणे ? गोयमा !, आया नियमं दंसणे दंसणेवि नियमं आया । आया भंते ! नेर० दंसणे अन्ने नेरइयाणं दंसणे १, गोयमा ! आया नेरहयाणं नियमा दंसणे दंसणेवि से नियमं आया एवं जाव वेमा० निरंतरं दंडओ ॥ ( सूत्रं ४६८ ) ।
'कविहा ण' मिति, 'आय'त्ति अतति-सन्ततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा, अथवा अतधातोर्गमनार्थत्वेन ज्ञानार्थत्वादतति - सन्ततमवगच्छति उपयोगलक्षणत्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्ग निर्देशः, तस्य | चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युपाधिभेदादष्टधात्वं तत्र 'दवियाय'त्ति द्रव्यं - त्रिकालानुगाम्युपसर्जनीकृतकपायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषां जीवानां, 'कसायाय'त्ति क्रोधादिकपायविशिष्ट आत्मा कपायात्मा अक्षीणानुपशान्तकषायाणां; 'जोगाय'त्ति योगा - मनःप्रभृतिव्यापारास्तत्प्रधान आत्मा योगात्मा योगवतामेव, 'उवओगाय'त्ति | उपयोगः - साकारानाकारभेदस्तत्प्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'नाणाय'त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यग्दृष्टेः, एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां वीर्य - उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तञ्च - “जीवानां
१ यद्यपि प्रशमरतौ 'जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मेति पाठः व्याख्याद्वये च तथैव विवरणं तथैवोल्लेखोऽन्यत्रापि, तथापि अभियुक्तैरेष पाठोऽभिमतोऽत्र, न चाशङ्कयं लेखकदूषणं, यतः प्रागत्रैव प्रतिपादने सर्वजीवानां द्रव्यात्मेति व्याख्यातमन्यथा व्याख्यास्यन् द्रव्यात्मा जीवाजीवानामिति, न चोच्यते सूत्रकृद्भिः कषायादिभिः सहवृत्तिता नियमः । जीवप्रकरणमनुसरद्भिस्त्यक्ता वाऽजीवा अभियुक्तैः स्युः ।
For Personal & Private Use Only
jainelibrary.org