________________
बिसरीरेसु नागेसु उबवज्जेज्जा १, हंता गोयमा ! उववज्जेज्जा, से णं तत्थ अच्चियवंदिय पूइयसकारियसम्माणिए दिवे सच्चे सच्चोवाए संनिहियपाडिहेरे यावि भवेज्जा ?, हंता भवेज्जा से णं भंते! तओहिंतो अनंतरं उघट्टित्ता सिज्झेज्जा बुज्झेजा जाव अंतं करेज्जा ?, हंता सिज्झिज्जा जाव अंतं करेजा, देवे णं भंते ! महड्डीए एवं चैव जाव बिसरीरेसु मणीसु उववज्जेज्जा, एवं चेव जहा नागाणं, देवे णं भंते ! महड्डीए जाव बिसरीरेस रुक्खेसु उववज्जेज्जा ?, हंता उववज्जेज्जा एवं चेव, नवरं इमं नाणत्तं जाव सन्निहियपाडिहेरे लाउल्लो| इयमहिते यावि भवेज्जा ?, हंता भवेज्जा सेसं तं चैव जाव अंतं करेजा ॥ (सूत्रं ४५९ )
'ते' मित्यादि, 'बिसरीरेसु'त्ति द्वे शरीरे येषां ते द्विशरीरास्तेषु ये हि नागशरीरं त्यक्त्वा मनुष्यशरीरमवाप्य | सेत्स्यन्ति ते द्विशरीरा इति, 'नागेसु'त्ति सर्व्वेषु हस्तिषु वा 'तत्थ'त्ति नागजन्मनि यत्र वा क्षेत्रे जातः 'अच्चिए 'त्यादि, इहार्चितादिपदानां पञ्चानां कर्म्मधारयः तत्र चार्चितश्चन्दनादिना वन्दितः स्तुत्या पूजितः पुष्पादिना सत्कारितो -व| स्त्रादिना सन्मानितः प्रतिपत्तिविशेषेण 'दिवे'त्ति प्रधानः 'सच्चे 'त्ति स्वप्नादिप्रकारेण तदुपदिष्टस्यावितथत्वात् 'सच्चोवाए' त्ति सत्यावपातः सफलसेव इत्यर्थः, कुत एतत् ? इत्याह- 'सन्निहियपाडिहेरे 'ति सन्निहितं - अदूरवत्तिं प्रातिहार्य| पूर्वसङ्गतिकादिदेवताकृतं प्रतिहारकर्म यस्य स तथा 'मणीसु'त्ति पृथिवीकायविकारेषु ' लाउल्लोइयमहिए'त्ति 'लाइयं'ति छगणादिना भूमिकायाः संमृष्टीकरणं 'उल्लोइयंति सेटिकादिना कुड्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा, एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति ॥
Jain Education International
For Personal & Private Use Only
------
www.jainelibrary.org