________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५७७॥
इति, इह तु षोडशभागकल्पना न कृता व्यवहारिणां षोडशभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाच इति, मनु | चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयो जनप्रमाणत्वात्कथं पञ्चदशे | दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् १ इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजन| मिति प्रमाणं तत्प्रायिकं, ततश्च राहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः -लघीयसोऽपि राहु| विमानस्य महता तमिस्ररश्मिजालेन तदात्रियत इति, ननु कतिपयान् दिवसान् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते | ग्रहण इव कतिपयांश्च न तथेति किमत्र कारणम् १, अत्रोच्यते, येषु दिवसेष्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति येषु पुनर्नाभिभूयतेऽसौ विशुद्धयमानत्वात् तेषु न वृतमाभाति, तथा चोक्तम्- "वच्छेओ कइव| इदिवसे धुवशहुणो विमाणस्स । दीसइ परं न दीसह जह गहणे पबराहुस्स ॥१॥" आचार्य आह - "अच्वत्थं नहि तमसाऽभिभूयते जं ससी विसुज्झतो । तेण न वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥ १ ॥” इति । [ कतिपयदिवसेषु ध्रुव| राहोर्विमानस्य वृत्तभागो दृश्यते यथा ग्रहणे पर्वराहोः कतिपयेषु च न तथा दृश्यते ॥ १॥ यद्विशुद्ध्यमानः शशी तमसाऽत्यर्थ नैवाभिभूयतेऽतो न वृत्तभागः ( उपलभ्यते ) ग्रहणे तमस्तमो बहुल: पर्वराहुः ॥ २ ॥ ] 'तत्थ णं जे से पचेत्यादि, | 'बायालीसाए मासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतया - |ष्टचत्वारिंशता संवत्सराणामिति ॥ अथ चन्द्रस्य 'ससि'त्ति यदभिधानं तस्यान्यर्थाभिधानायाह
से केणद्वेणं भंते ! एवं बुचह- चंदे ससी २१, गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरनो मियंके विमाणे
Jain Education International
For Personal & Private Use Only
१२ शतके ६ उद्देशः राहुविमानं सू ४५३
1140011
www.jainelibrary.org