SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ किण्हं राहविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेहा चंदस्स तं चरइ ॥१॥” इति [कृष्णं राहविमान |चन्द्रेणाविरहितं (भवति ) चतुरङ्गलाप्राप्तं नित्यं चन्द्रस्याधस्तात्तच्चरति ॥१॥] यस्तु पर्वणि-पौर्णमास्यामावास्ययोश्च|न्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति । तत्थ णं जे से धुवराहू'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः। पञ्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं 'चंदस्स लेस्सं'ति विभक्तिव्यत्ययाच्चन्द्रस्य लेश्यायाः चन्द्रबिम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, 'पढमाए'त्ति प्रथमतिथौ, 'पन्नरसेसुत्ति पञ्चदशसु दिनेषु अमावास्यायामित्यर्थः ‘पन्नरसमं भागं' 'आवरित्ताणं चिट्ठइ'त्ति वाक्यशेषः, एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये का पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो भवति-राहुणोपरक्को भवति सर्वथाऽप्याच्छादित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरकोऽशान्तरेण चानुपरक्तः आच्छादितानाच्छादित इत्यर्थः । 'तमेव'त्ति तमेव चन्द्रलेइयापञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते 'उपदर्शयन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् प्रकटयंस्तिष्ठति, 'चरिमसमये'त्ति पौर्णमास्यां चन्द्रो विरको भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थः-पोडशभागीकृतस्य चन्द्रस्य पोडशो है भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तश्च ज्योतिष्करण्डके-“सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहुई जोण्हा ॥१॥"[ षोडश भागान् कृत्वोडुपतिर्हापयत्यऽत्र पश्चदश । तावन्मात्रान् भागान् पुनरपि वर्द्धयति ज्योत्स्नायाः ॥१॥ 45%-845455445 ध्या०९७ Jain Education sana For Personal & Private Use Only im.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy