________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५७६ ॥
दीपमल्लिकामलस्तस्य यो वर्णस्तद्वदाभा यस्य तत्तथा 'लाउयवन्नाभे'त्ति 'लाउयं'ति तुम्बिका तच्चेहापवावस्थं ग्राह्यमिति 'भासरासिवण्णाभे'त्ति भस्मराशिवर्णाभं, ततश्च किमित्याह - 'जया ण'मित्यादि, 'आगच्छमाणे वत्ति गत्वाऽति| चारेण ततः प्रतिनिवर्त्तमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे व'त्ति स्वभावचारेण चरन्, एतेन च पद| द्वयेन स्वाभाविकी गतिरुक्ता, 'विउद्यमाणे व'त्ति विकुर्वणां कुवर्न 'परियारेमाणे वत्ति परिचारयन् कामक्रीडां कुर्वन्, | एतस्मिन् द्वयेऽतित्वरया प्रवर्त्तमानो विसंस्थलचेष्टया स्वविमानमसमञ्जसं वलयति, एतच्च द्वयमस्वाभाविकविमानग|तिग्रहणायोक्तमिति, "चंदलेसं पुरच्छिमेणं आवरेत्ताणं' ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीतेरा वृत्तत्वाच्चन्द्रलेश्यां पुरस्तादावृत्त्य 'पञ्चच्छिमेणं वीइवयह' त्ति चन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहुति राह्नपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुप| दर्शयतीत्यर्थः । एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह - 'जया ण'मित्यादि, 'आवरेमाणे' इत्यत्र द्विर्व| चनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंद्रेण राहुस्स कुच्छी भिन्न'त्ति राहोरंशस्य मध्येन चन्द्रो गत इति वाच्यं, चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति, 'पञ्चसक्क ' त्ति 'प्रत्यवसर्पति' व्यावर्त्तते 'वंते'त्ति 'वान्तः' परित्यक्तः, 'सपक्खि सपडिदिसं' ति सपक्षं - समानादिग् यथा भवति सप्रतिदिक्- समानविदिक् च यथा भवतीत्येवं चन्द्र| लेश्यां 'आवृत्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं न तु कार्मण| मिति ॥ अथ राहोर्भेदमाह - 'कइविहे णमित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति स ध्रुवराहुः, आह च -
Jain Education International
For Personal & Private Use Only
-
१२ शतके ६ उद्देशः राहुविमानं
सू ४५३
॥५७६ ॥
www.jainelibrary.org