________________
आदरकरणेन परवश्चनं पूर्वकृतमायाप्रच्छादनार्थं वा मायान्तरकरणं 'वलए 'ति येन भावेन वलयमिव वक्रं वचनं चेष्टा वा प्रवर्त्तते स भावो वलयं 'गहणे'त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं 'णूमेति परवश्चनाय निम्नताया निम्नस्थानस्य वाऽश्रयणं तन्नमंति 'कक्के'त्ति कल्कं हिंसादिरूपं पापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते 'कुरुए'त्ति कुत्सितं यथा भवत्येवं रूपयति- विमोहयति यत्तत्कुरूपं भाण्डादिकर्म मायाविशेष एव 'जिम्हे' त्ति | येन परवञ्चनाभिप्रायेण जैहयं - क्रियासु मान्द्यमालम्बते स भावो जैह्रयमेवेति 'किविसेत्ति यतो मायाविशेषाज्जन्मा| न्तरेऽत्रैव वा भवे किल्विषः - किल्बिषिको भवति स किल्विष एवेति, 'आयरणय'त्ति यतो मायाविशेषादादरणं - अभ्युपगमं कस्यापि वस्तुनः करोत्यसावादरणं, ताप्रत्ययस्य च स्वार्थिकत्वाद् आयरणया, आचरणं वा - परप्रतारणाय विवि धक्रियाणामाचरणं, 'गूढनया' गूहनं गोपायनं स्वरूपस्य 'वंचणया' वञ्चनं- परस्य प्रतारणं 'पलिउंचणया' प्रतिकुश्चनं सरलतया प्रवृत्तस्य वचनस्य खण्डनं 'साइजोगे' त्ति अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तत्मतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति । 'लोभे 'ति सामान्यं इच्छादयस्तद्विशेषाः, तत्रेच्छा - अभिलाषमात्रं 'मुच्छा कंखा गेही 'त्ति मूर्च्छा-संरक्षणानुबन्धः काङ्क्षा - अप्राप्तार्थाशंसा 'गेहि'त्ति गृद्धि: - प्राप्तार्थेष्वासक्तिः 'तण्ह'त्ति तृष्णा- प्राप्तार्थानामव्ययेच्छा 'भिज्ज'त्ति अभि-व्याप्त्या विषयाणां ध्यानं तदेकाग्रत्वमभिध्या पिधानादिवदकारलोपाद्विध्या 'अभिज्झत्ति न भिध्या अभिध्या भिध्यासदृशं भावान्तरं तत्र दृढाभिनिवेशो भिध्या ध्यानलक्षणत्वात्तस्याः, | अदृढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः, ध्यानचित्तयोस्त्वयं विशेष:- "जं थिरमज्झवसाणं तं झाणं जं चलं तयं
Jain Education International
For Personal & Private Use Only
******
www.jainelibrary.org