SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तिचारं च सत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामितीर्थ सङ्क्रामतः पश्चयामधर्मप्राप्ती, सातिचारं तु मूलगुणघातिनो यद्वतारोपणं, तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश् छेदोपस्थापनीयचरित्रलब्धिः, 'परिहारविसुद्धियचरितलद्धि'ति परिहारः- तपोविशेषस्तेन विशुद्धियस्मिंस्तत्परिहारविशुद्धिकं शेषं तथैव, एतच्च द्विविधं - निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमान कास्तदासेव| कास्तदव्यतिरेकात्तदपि निर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जहन्नो गिम्हे चउत्थ छटं तु होइ मज्झिमओ । अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई छट्ठाई दसमचरिमगा होंति । वासासु अट्ठमाई वारसपज्जन्तओ णेइ ॥ ३ ॥ पारणगे आयामं पंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्टिया य पइदिण करेंति एमेव आयामं ॥ ४ ॥ इह सप्तस्वेषणासु मध्ये आद्ययोरग्रह एव, पञ्चसु पुनर्ब्रह:, १- परिहारिकाणां तपो जघन्यं मध्यमं तथैवोत्कृष्टं । शीतोष्णवर्षाकाले धीरैः प्रत्येकं भणितम् ॥ १ ॥ तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठं तु भवति मध्यमः । इहाष्टम उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादिषु षष्ठाद्यं दशमचरमं भवति । वर्षावष्टमादि ॥ द्वाद| शमपर्यन्तं नयति ततः ॥ ३॥ पारणके आचाम्लं पञ्चस्वेकस्य ग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनमाचामाम्लमेव कुर्वन्ति ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy