________________
यविरहितो लोको भविष्यतीति व्याख्यान्ति, अन्ये तू व्याएकोऽपि, अन्यथा भवसि
सिद्धिकशुन्यता लोकस्य स्यात्, नैवं, समयज्ञातात्, तथाहि सर्व एवानागतकालसमया वर्तमानतां लप्स्यन्ते| "भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ॥१॥" इत्य-|| भ्युपगमात्, न चानागतकालसमयविरहितो लोको भविष्यतीति । अथैतामेवाशङ्कां जयन्ती प्रश्नद्वारेणास्मदुक्तसमयज्ञातापेक्षया ज्ञातान्तरेण परिहर्जुमाह-'जइ ण'मित्यादि इत्येके व्याख्यान्ति, अन्ये तु व्याचक्षते-सर्वेऽपि भदन्त || भवसिद्धिका जीवाः सेत्स्यन्ति-ये केचन सेत्स्यन्ति ते सर्वेऽपि भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसि|द्धिकत्वमेव न स्यादित्यभिप्रायः, 'हते'त्याद्युत्तरम् । अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव नाभव-* सिद्धिक एकोऽपीत्यभ्युपगम्यते तदा कालेन सर्वभवसिद्धिकानां सिद्धिगमनाद् भव्यशून्यता जगतः स्यादिति जयन्त्याशां तत्परिहारं च दर्शयितुमाह-'जइ 'मित्यादि, 'सवागाससेढि'त्ति सर्वाकाशस्य-बुद्ध्या चतुरस्रप्रतरीकृतस्य श्रेणिः-प्रदेशपतिः सर्वाकाशश्रेणिः 'परित्त'त्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता 'परिवुड'त्ति श्रेण्यन्तरैः परिकरिता, स्वरूपमेतत्तस्याः, अत्रार्थे वृद्धोक्ता भावनागाथा भवन्ति-"तो भन्नइ किं न सिज्झति अहव किमभवसावसेसत्ता । निल्लेवणं न जुज्जइ तेसिं तो कारणं अन्नं ॥१॥" अयमर्थः-यदि भवसिद्धिकाः सेत्स्यन्तीत्यभ्युपगम्यते ततो भणति शिष्यः-कस्मान्न ते सर्वेऽपि सिक्ष्यन्ति ?, अन्यथा भवसिद्धिकत्वस्यैवाभावात् , अथवाऽपरं दूषणं-कस्मादभव्यसावशेषत्वाद्-अभव्यावशेषत्वेनाभव्यान् विमुच्येत्यर्थः तेषां भव्यानां निर्लेपनं न युज्यते ?, युज्यत एवेति भावः, १-तदा भणति किं न सिध्यन्ति अथवाऽभव्यावशिष्टत्वं ( भवति ) निर्लेपनं न युज्यते तेषां तद्भव्यत्वादन्यत्कारणं वाच्यं सिद्धेः॥१॥
Jain Education International
For Personal & Private Use Only
Www.jainelibrary.org