SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ | यजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिंति, से तेणट्टेणं गोयमा ! एवं बुच्चइ तिविहा जागरिया जाव सुदक्खुजागरिया (सूत्रं ४३९ ) ॥ 'संखे' त्यादि ॥ शङ्खश्रमणोपासक विषयः प्रथम उद्देशकः । 'जयंति 'त्ति जयन्त्यभिधानश्राविकाविषयो द्वितीयः । 'पुढवित्ति रत्नप्रभा पृथिवी विषयस्तृतीयः । ' पुग्गल त्ति पुद्गलविषयश्चतुर्थः । ' अइवाए 'ति प्राणातिपातादिविषयः पञ्चमः । 'राहु'त्ति राहुवतव्यतार्थः षष्ठः । 'लोगे य'त्ति लोकविषयः सप्तमः । 'नागे य'त्ति सर्पवक्तव्यतार्थोऽष्टमः । 'देव' त्ति देवभेदविषयो नवमः । 'आय'त्ति आत्मभेदनिरूपणार्थो दशम इति ॥ तत्र प्रथमोदेशके किञ्चिल्लिख्यते— 'आसाएमाण' त्ति ईषत्स्वादयन्तो बहु च त्यजन्तः इक्षुखण्डादेखि 'विस्साएमाण' त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खर्जूरादेरिव 'परिभाएमाण'त्ति ददतः 'परिभुंजे माण' त्ति सर्वमुपभुञ्जाना अल्पमप्यपरित्यजन्तः, एतेषां च पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः 'पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो'त्ति पक्षे - अर्द्धमासि भवं पाक्षिकं 'पौषधम्' अव्यापारपौषधं 'प्रतिजाग्रतः' | अनुपालयन्तः 'विहरिष्यामः' स्थास्यामः, यच्चेहातीतकालीन प्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्त| रमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थ, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते - इह किल पौषधं पर्वदि - नानुष्ठानं तच्च द्वेधा - इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपं च तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्त्तुकामः | सन् यदुक्तवांस्तद्दर्शयतेदमुक्त - 'तए णं अम्हे तं विउलं असणपाणखाइमसाइमं अस्साएमाणा' इत्यादि, पुनश्च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy