________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५४९॥
अहिज्जइ, बहुपडिपुन्नाई दुवालस वासाई सामन्नपरियागं पाउणइ, सेसं तं चैव । सेवं भंते ! सेवं भंते ! ॥ ( सूत्र ४३२ ) ॥ महबलो समत्तो ॥ ११-११ ॥
'विमलस्स'त्ति अस्यामवसर्पिण्यां त्रयोदशजिनेन्द्रस्य 'पउप्पए'त्ति प्रपौत्रकः - प्रशिष्यः अथवा प्रपौत्रिके - शिष्य| सन्ताने 'जहा केसिसामिस्स' त्ति यथा केशिनाम्न आचार्यस्य राजप्रश्नकृताधीतस्य वर्णक उक्तस्तथाऽस्य वाच्यः, स च 'कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने' इत्यादिरिति, 'वृत्तपडिवुत्तय'त्ति उक्तप्रत्युक्तिका भणितानि मातुः प्रतिभणितानि च महाबलस्येत्यर्थः, नवरमित्यादि, जमालिचरिते हि विपुलकुलबालिका इत्यधीतमिह तु विपुलराजकुलबा - लिका इत्येतदध्येतव्यं, कला इत्यनेन चेदं सूचितं - 'कलाकुसल सब काललालियसुहोइयाओ'त्ति, 'सिवभद्दस्स' त्ति | एकादशशत नवमोदेशकाभिहितस्य शिवराजर्षिपुत्रस्य, 'जहा अम्मडो'त्ति यथोपपातिके अम्मडोऽधीतस्तथाऽयमिह वाच्यः, तत्र व यावत्करणादेतत्सूत्रमेवं दृश्यं - 'गहगणन क्खत्ततारारूवाणं बहूइं जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसय सहस्साइं बहूई जोयणकोडाकोडीओ उद्धुं दूरं उप्पइत्ता सोहम्मीसाणसणं कुमारमाहिंदे कप्पे वीईवइत्त'त्ति, इह च किल चतुर्दशपूर्वधरस्य जघन्यतोऽपि लान्तके उपपात इष्यते, “जावंति लंतगाओ चउद| सपुखी जहन्नउववाओ" ति वचनादेतस्य चतुर्दशपूर्वधरस्यापि यद् ब्रह्मलोके उपपात उक्तस्तत् केनापि मनाग् विस्मरणा| दिना प्रकारेण चतुर्दशपूर्वाणामपरिपूर्णत्वादिति संभावयन्तीति । 'सन्नी पुवजाईसरणे' त्ति सज्ञिरूपा या पूर्वा जातिस्तस्याः स्मरणं यत्तत्तथा ' अहिसमेह' त्ति अधिगच्छतीत्यर्थः 'दुगुणाणीयससंवेगे'त्ति पूर्वकालापेक्षया द्विगुणावा
Jain Education International
For Personal & Private Use Only
११ शतके ११ उद्देशः महाबल
दीक्षादि
सू ४३१ सुदर्शन
दीक्षादि
सू ४३२
॥५४९॥
www.jainelibrary.org