________________
मित्यर्थः 'अणुडुइयमुइंग' त्ति अनुद्धृता-वादनार्थं वादकैरविमुक्ता मृदङ्गा यस्यां सा तथा ताम् 'अमिलायमल्लदा मं अम्लानपुष्पमालां 'पमुइय पक्की लिये 'ति प्रमुदितजनयोगात्प्रमुदिता प्रक्रीडितजनयोगात्प्रक्रीडिता ततः कर्मधारयोऽतस्तां 'सपुरजणजाणवयं' सह पुरजनेन जानपदेन च - जनपदसम्वन्धिजनेन या वर्त्तते सा तथा तां, वाचनान्तरे 'विजयवेजइये 'ति दृश्यते तत्र चातिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा विजयवैजयिकी तां 'ठिइवडियं' ति स्थिती - कुलस्य लोकस्य वा मर्यादायां पतिता-गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिताऽतस्तां' दसाहियाए 'त्ति दशाहि| कायां - दशदिवसप्रमाणायां 'जाए य'त्ति यागान्- पूजाविशेषान् 'दाए य'त्ति दायांश्च दानानि 'भाए यत्ति भागांश्च-विवक्षितद्रव्यांशान् 'चंदसूरदंसणियं' ति चन्द्रसूर्यदर्शनाभिधानमुत्सवं 'जागरियं' ति रात्रिजागरणरूपमुत्सवविशेषं 'निवत्ते असुइजायकम्मकरणे' त्ति 'निवृत्ते' अतिक्रान्ते अशुचीनां जातकर्म्मणां करणमशुचिजातकर्म्मकरणं तत्र 'संपत्ते बारसाहदिवसे 'त्ति संप्राप्ते द्वादशाख्यदिवसे, अथवा द्वादशानामह्नां समाहारो द्वादशाहं तस्य दिवसो द्वादशाहदिवसो येन स पूर्यते तत्र, 'कुलाणुरूवं'ति कुलोचितं, कस्मादेवम् ? इत्याह- 'कुलसरिसं ति कुलसदृशं तत्कुलस्य बलवत्पुरुष| कुलत्वान्महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात् तत्कुलस्य महाबल इति नाम्नश्च सादृश्यमिति 'कुलसंताणतंतुवद्वणकरं 'ति कुलरूपो यः सन्तानः स एव तन्तुर्दीर्घत्वात्तद्वर्द्धनकरं माङ्गल्यत्वाद् यत्र तत्तथा 'अयमेयारूवंति इदमेतद्रूपं 'गोणं'ति गौणं तच्चामुख्यमप्युच्यत इत्यत आह- 'गुणनिफन्नं'ति, 'जम्हा णं अम्हं' इत्यादि अस्माकमयं दारकः प्र|भावतीदेव्यात्मजो यस्माद्बलस्य राज्ञः पुत्रस्तस्मात्पितुर्नामानुसारिनामास्य दारकस्यास्तु महाबल इति । 'जहा दढपइन्ने'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org