SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ | सति परस्परतः 'विणिच्छियह'त्ति प्रश्नानन्तरं अत एवाभिगतार्था इति॥'सुविण'त्ति सामान्यफलत्वात् 'महासुविण'ति महाफलत्वात् 'बावत्तरिति त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति गम्भं वक्कममाणंसित्ति गर्ने व्युत्क्रामति-प्रविशति सतीत्यर्थः, 'गयवसहे'त्यादि, इह च 'अभिसेय'त्ति लक्ष्म्या अभिषेकः 'दाम'त्ति पुष्पमाला, विमाणभवणत्ति एकमेव, तत्र का विमानाकारं भवनं विमानभवनं, अथवा देवलोकाद्योऽवतरति तन्माता विमानं पश्यति वस्तु नरकात् तन्माता भवनमिति, || इह च गाथायां केषुचित्पदेष्वनुस्वारस्याश्रवणं गाथाऽनुलोम्याद् दृश्यमिति ॥ 'जीवियारिहंति जीविकोचितम् । 'उउभुयमाणसुहेहिति ऋतौ २ भज्यमानानि यानि सुखानि-सुखहेतवः शुभानि वा तानि तथा तैः 'हियंति तमेव गर्भमपेक्ष्य 'मियंति परिमित-नाधिकमूनं वा 'पत्थंति सामान्येन पथ्यं, किमुक्तं भवति ?-'गन्भपोसणं'ति गर्भपोषक- मिति 'देसे यत्ति उचितभूप्रदेशे 'काले यत्ति तथाविधावसरे 'विवित्तमउएहिति विविक्तानि-दोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तानि तथा तैः 'पइरिकसुहाए'त्ति प्रतिरिक्तत्वेन तथाविध|जनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया 'पसत्थदोहल'त्ति अनिन्द्यमनोरथा 'संपुन्नदोहला' अभिलषितार्थपूरणात् 'संमाणियदोहला' प्राप्तस्याभिलषितार्थस्य भोगात् 'अविमाणियदोहल'त्ति क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः अत एव 'वोच्छिन्नदोहल'त्ति त्रुटितवाञ्छेत्यर्थः, दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणी| यदोहल'त्ति विवगए' इत्यादि, इह च मोहो-मूढता भयं-भीतिमात्रं परित्रासः-अकस्माद्भयम् , इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयइ सुयइ चिट्ठइ निसीयइ तुयदृ'त्ति दृश्यते तत्र च 'मुहंसुहेणं'ति गर्भानाबाधया 'आसय'त्ति Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy