SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः 'सूरे'त्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'त्ति सङ्ग्रामतः 'विकंते'त्ति विक्रान्तः - परकीय भूमण्डलाक्रमणतः 'विच्छिन्नविपुलबलवाहणे'त्ति विस्तीर्णविपुले - अतिविस्तीर्णे बलवाहने - सैन्यगजादिके यस्य स तथा 'रज्जवइ'त्ति स्वतन्त्र इत्यर्थः 'मा मे से'त्ति मा ममासौ स्वप्न इत्यर्थः 'उत्तमे 'त्ति | स्वरूपतः 'पहाणे'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल्ले'त्ति अनर्थप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरियं' ति स्वप्नसंर| क्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां 'पडिजागरमाणी २'ति प्रतिजाग्रती - कुर्वन्ती, आभीक्ष्ण्ये च द्विर्वचनम् । | 'गंधोदयसि त्तसुइयसम्मज्जिओ वलित्तं'ति गन्धोदकेन सिक्ता शुचिका - पवित्रा संमार्जिता कचवरापनयनेन उप| लिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्यं, सिक्ताद्यन|न्तरभावित्वाच्छुचिकत्वस्येति, 'अट्टणसाल’'त्ति व्यायामशाला 'जहा उववाइए तहेव अट्टणसाला तहेव मज्जण| घरेत्ति यथौतिपपातिकेऽट्टणशालाव्यतिकरो मज्जनगृहव्यतिकरश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः स चायम् — 'अणे - वायामजोग्गवग्गणवामद्दण मल्लयुद्धकरणेहिं संते' इत्यादि, तत्र चानेकानि व्यायामार्थं यानि योग्यादीनि तानि तथा तैः, तत्र योग्या - गुणनिका वलूगनं-उल्ललनं व्यामर्द्दनं - परस्परेणाङ्गमोटन मिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मज्ज|णघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणघरं अणुपविसइ समंतजालाभिरामे' समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहनिसणे' इत्यादिरिति । 'महग्घवरपट्टणुग्गयं' ति महार्घा च सा वरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तां वरपट्टनाद्वा-प्रधान Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy