SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ चकमलको मलमाइयसोहंतल उट्ठे' परिकर्मितं कृतपरिकर्म्म यज्जात्यकमलं तद्वत्कोमलौ मात्रिकौ - प्रमाणोपपन्नौ शोभमा नानां मध्ये लष्टौ -मनोज्ञौ ओष्ठौ - दशनच्छदौ यस्य स तथा तं 'रतुप्पलपत्तमउयसुकुमालतालुजीहं' रक्तोत्पलपत्रवत् | मृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तथा तं, वाचनान्तरे तु 'रतुप्पलपत्तमज्य सुकुमालतालु निल्ला लियग्गजीहं महुगुलियाभिसंतपिंगलच्छं 'ति तत्र च रक्तोत्पलपत्रवत् सुकुमालं तालु निर्लालिताग्रा च जिह्वा यस्य स तथा तं मधुगुटिकादिवत् 'भिसंतति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्तायं तवट्टतडिविमलसरिसनयणं मूषा-स्वर्णादितापनभाजनं तद्गतं यत्प्रवरकनकं वापितं कृताग्नितापम् ' आवत्तायंत 'ति आवर्त्त कुर्वाणं तद्वद् ये वर्णतः वृत्ते च तडिदिव विमले च सदृशे च परस्परेण नयने- लोचने यस्य स तथा तं 'विसालपीवरोरुपडिपुन्नविपुलखंधं' विशाले - विस्तीर्णे पीवरे - उपचिते ऊरू- जङ्घे यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तं 'मिडविसयहुमलक्खणपसत्थविच्छिन्न केसरसडोवसोहियं' मृदवः 'विसद'त्ति स्पष्टाः सूक्ष्माः 'लक्खणपसत्थ' त्ति प्रशस्तलक्षणाः विस्तीर्णाः पाठान्तरेण विकीर्णा याः केशरसटाः - स्कन्ध केशच्छटास्ताभिरुपशोभितो यः स तथा तम् 'ऊसियमुनिम्मिय सुजायअप्फोडियलंगूलं' उच्छ्रितं-ऊर्जीकृतं सुनिर्मितं- सुष्ठु अधोमुखीकृतं सुजातं - शोभ नतया जातं आस्फोटितं च-भूमावास्फालितं लाङ्गूलं येन स तथा तम् ॥ 'अतुरियमचवलं'ति देहमनश्चापल्यरहितं यथा भवत्येवम् ' असंभंताएं'त्ति अनुत्सुकया 'रायहंससरिसीए' त्ति राजहंसगतिसदृश्येत्यर्थः ' आसत्य'त्ति आश्वस्ता गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्घोभाभावात् अनुत्सुका वा 'सुहासणवरगद्य'त्ति सुखेन सुखं वा शुभं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy