________________
व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः२
सू४२५
॥५३॥
HEREOSSACCIRCLESSORRECOM
घटिका इत्यर्थः ततोऽर्द्धपञ्चमा मुहूर्ता यस्यां सा तथा, तिमुहुत्तत्ति द्वादशमुहूर्तस्य दिवसादेश्चतुर्थो भागस्त्रिमुहूर्तों भवति ११ शतके | अतस्त्रयो मुहूर्ताः-षट् घटिका यस्यां सा तथा, 'कइभागमुहुत्तभागेणं'ति कतिभाग:-कतिथभागस्तद्रूपो मुहूर्त्तभागः ११ उद्देश: कतिभागमुहूर्तभागस्तेन, कतिथेन मुहूर्तीशेनेत्यर्थः 'बावीससयभागमुहुत्तभागेणं'ति इहार्द्धपञ्चमानां त्रयाणां च पौरुषीमानं मुहूर्तानां विशेषः साङ्के मुहूर्त्तः, स च त्र्यशीत्यधिकेन दिवसशतेन वर्द्धते हीयते च, स च साझै मुहूर्त्तख्यशीत्यधिक|शतभागतया व्यवस्थाप्यते, तत्र च मुहर्ते द्वाविंशत्यधिक भागशतं भवत्यतोऽभिधीयते-'बावीसे'त्यादि, द्वाविंशत्यधि कशततमभागरूपेण मुहूर्त्तभागेनेत्यर्थः । 'आसाढपुन्निमाए'इत्यादि, इह 'आषाढपौर्णमास्या मिति यदुक्तं तत् पञ्चसंवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयं, यतस्तत्रैवाषाढपौर्णमास्यामष्टादशमुहूर्तो दिवसो भवति, अर्द्धपञ्चममुहूर्त्ता च | तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कर्कसङ्क्रान्तिर्जायते तत्रैवासौ भवतीति समवसेयमिति, एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति ॥ अनन्तरं रात्रिदिवसयोवैषम्यमभिहितं, अथ तयोरेव समतां दर्शयन्नाह-अस्थि 'मित्यादि, इह च 'चत्तासोयपुन्निमाएसु णमित्यादि यदुच्यते तद्व्यवहारनयापेक्षं, निश्चयतस्तु कर्कमकरसङ्क्रान्तिदिनादारभ्य || | यद् द्विनवतितममहोरात्रं तस्याट्टै समा दिवरात्रिप्रमाणतेति, तत्र च पञ्चदशमहले दिने रात्री वा पौरुषीप्रमाणं त्रयो। मुहूर्तास्त्रयश्च मुहूर्तचतुर्भागा भवन्ति, दिनचतुर्भागरूपत्वात्तस्याः, एतदेवाह-'चउभागे'त्यादि, चतुभोगरूपो यो||||५३॥ | मुहूर्तभागस्तेनोना चतुर्भागमुहूर्तभागोना चत्वारो मुहूर्त्ता यस्यां पौरुष्यां सा तथेति ॥
से किं तं अहाउनिवत्तिकाले ?, अहा० २ जन्नं जेणं नेरहएण वा तिरिक्खजोणिएण वा मणुस्सेण वा|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org