________________
उत्पमा डिगइया कानां चान
वे अज्ञाने इति । 'मणुस्सगइया 'मित्यादौ, 'तिन्नि माणाई भयणाएत्ति मनुष्यगतौ हि गच्छन्तः केचिज्ज्ञानिनोऽवधिना सहैव गच्छन्ति तीर्थकरवत् केचिच्च तद्विमुच्य तेषां त्रीणि वा द्वे वा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनु| प्यगताकुत्पत्तुकामास्तेषां प्रतिपतित एव विभङ्गे तत्रोत्पत्तिः स्यादित्यत उक्तं 'दो अन्नाणाई नियम'त्ति । 'देवगइया जहा निरयगइय'त्ति देवगतो ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यतेऽतस्तेषां| नारकाणामिवोच्यते, 'तिन्नि नाणाई नियमत्ति, ये त्वज्ञानिनस्तेऽसज्ञिभ्य उत्पद्यमाना यज्ञानिनः, अपर्याप्तकत्वे विभङ्गस्याभावात् सज्ञिभ्य उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणामिवोच्यते'तिन्नि अन्नाणाई भयणाए'त्ति । 'सिडिगइया 'मित्यादि, यथा सिद्धाः केवलज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धानां सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्ते दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति ॥ अथेन्द्रियद्वारे'सइंदियेत्यादि, 'सेन्द्रियाः' इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया है। स्थात् द्वे स्यात् त्रीणि स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम् , अतीन्द्रियज्ञानत्वात्तस्य, व्यादिभावश्च ज्ञानानां लब्ध्य| पेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम् , अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव-स्यात् द्वे स्यात्रीणीति, 'जहा पुढविकाइय'त्ति एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च व्यज्ञाना एवेत्यर्थः । 'बेइंदिये'त्यादि, एषा द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः पडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति ।
56CROSSOCCASSOCX
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only