________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १
॥३४६ ॥
जहा सकाइया, अभवसिद्धियाणं पुच्छा, गोयमा ! नो नाणी अन्नाणी तिन्नि अन्नाणारं भयणाए । नोभवसिद्धियानोअभवसिद्धिया णं भंते ! जीवा० जहा सिद्धा ७ ॥ सन्नीणं पुच्छा जहा सइंदिया, असन्नी जहा बेइंदिया, नोसन्नीनोअसन्नी जहा सिद्धा ८ ॥ ( सूत्रं ३१९ ) ॥
'निरयगइया ण' मित्यादि, गत्यादिद्वाराणि चैतानि - " गइइंदिए य काए सुहुमे पज्जत्तए भवत्थे य । भवसिद्धिए य सन्नी लद्धी उवओग जोगे य ॥ १ ॥ लेसा कसाय वेए आहारे नाणगोयरे काले । अंतर अप्पाबहुयं च पज्जवा चेह दोराई ॥ २ ॥ तत्र च निरये गतिः- गमनं येषां ते निरयगतिकास्तेषाम्, इह च सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पश्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तकामा अन्तरगतौ वर्त्तन्ते ते निरयगतिका विवक्षिताः, एतत्प्रयोजनत्वाद्गतिग्रहणस्येति, तिन्नि नाणाई नियम'त्ति अवधेर्भवप्रत्ययत्वेनान्तरगतावपि भावात् 'तिन्नि अन्नाणाइं भयणाए 'ति असज्ञिनां नरके गच्छतां द्वे अज्ञाने अपर्याप्तकत्वे विभङ्गस्याभावात् सञ्ज्ञिनां तु मिथ्यादृष्टीनां त्रीण्यज्ञानानि भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यत इति । 'तिरियगइया णं' ति तिर्यक्षु गतिःगमनं येषां ते तिर्यग्गतिकास्तेषां तदपान्तरालवर्त्तिनां 'दो नाण'त्ति सम्यग्दृष्टयो ह्यवधिज्ञाने प्रपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां द्वे एव ज्ञाने 'दो अन्नाणे'त्ति मिथ्यादृष्टयोऽपि हि विभङ्गज्ञाने प्रतिपतिते एव तिर्यक्षु गच्छन्ति तेन तेषां १ गत एकेन्द्रियादिः पृथ्वीकायादिः सूक्ष्मः पर्याप्तः भवस्थश्च भवसिद्धिकश्च सज्ञी लब्धिरुपयोगो योगश्च ॥ १ ॥ लेश्या कषायः || वेदः आहारः ज्ञानविषयः कालः अन्तरम् अल्पबहुत्वं च पर्यायाश्वेह द्वाराणि ॥ २ ॥
Jain Education International
For Personal & Private Use Only
८ शतके उद्देशः २ गत्यादिषु ज्ञानाज्ञा
नानि
| सू ३१९
॥१४६॥
www.jainelibrary.org