________________
पएसे किमेगजीवप्पएसरासिस्स । होज्जेगनिगोयस्स व गोलस्स व किं समोगाढं ? ॥ १५ ॥ तत्र जीवमाश्रित्योत्तरम् - जीवस्स लोगमेत्तस्स सुहुमओगाहणावगाढस्स । एक्केक्कंमि पएसे होंति पएसा असंखेज्जा ॥ १६ ॥ ते च किल कल्पनया कोटीशतसङ्ख्यस्य जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति ॥ अथ निगोदमाश्रित्याह — लोगस्स हिए भागे निगोयओगाहणाऍ जं लद्धं । उक्कोसपएऽतिगयं एत्तियमेक्वेक्कजीवाओ ॥ १७ ॥ 'लोकस्य' कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतं - अवगाढमेतावदेकै कजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः । | अनेन निगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमथ गोलकसत्कं यत्तत्रावगाढं तद्दर्शयति - एवं दबट्ठाओ सबेसिं एकगोलजीवाणं । उक्कोसपयमइगया होंति पएसा असंखगुणा ॥ १८ ॥ यथा निगोदजीवेभ्योऽसङ्ख्येयगुणास्तत्प्रदेशा उत्कृ|ष्टपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थतया न तु प्रदेशार्थतया 'सवेसिं'ति सर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सका| शादुत्कृष्टपदमतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपि निगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्ख्यातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्च लक्षस्य लक्षगुणने कोटी सहस्रसङ्ख्याः कल्पनया गोलके जीवा भवन्ति, तत्प्रदेशानां च लक्षं लक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसङ्ख्यया लक्षगुणने कोटीकोटीदशकसङ्ख्या एकत्र | प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति । गोलकजीवेभ्य सकाशादेकत्र प्रदेशेऽसङ्ख्यगुणा जीवप्रदेशा भवन्तीत्युक्तमथ तत्र | गुणकारराशेः परिमाणनिर्णयार्थमुच्यते - तं पुण केवइएणं गुणियमसंखेज्जयं भवेज्जाहि । भन्नइ दबट्ठाइ जावइया सब
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org