SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ व्याख्यामज्ञप्तिः बमयदेवीया वृत्तिः२ | ११ शतके १० उद्देश: निगोदषट्त्रिंशिका | सू ४२६ ॥५३०॥ गोलत्ति ॥ १९॥ तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशिसम्बन्धि 'कियता' किंपरिमाणेनासङ्ख्येयराशिना गुणितं | सत् 'असंखेजयंति असङ्ख्येयकम्-असङ्ख्यातगुणनाद्वारायातं भवेत्' स्यादिति ?,भण्यते अत्रोत्तरं, द्रव्यार्थतया न तु प्रदेशार्थ तया यावन्तः 'सर्वगोलकाः' सकलगोलकास्तावन्त इति गम्यं, स चोत्कृष्टपदगतेकजीवप्रदेशराशिमन्तव्यः, सकलगोलकानां तत्तुल्यत्वादिति ॥ किं कारणमोगाहणतुल्लत्ता जियमिगोयगोलाणं । गोला उक्कोसपएक्कजियपएसेहिं तो तुल्ला॥२०॥ |'किं कारणं ति कस्मात्कारणाद् यावन्तः सर्वगोलास्तावन्त एवोत्कृष्टपदगतैकजीवप्रदेशाः? इति प्रश्नः, अत्रोत्तरम्-अवगाहनातुल्यत्वात् , केषामियमित्याह-जीवनिगोदगोलानाम् , अवगाहनातुल्यत्वं चैषामङ्गुलासङ्ख्येयभागमात्रावगाहित्वादिति प्रश्नः, यस्मादेवं 'तो'त्ति तस्माद्गोलाः सकललोकसम्बन्धिनः उत्कृष्टपदे ये एकस्य जीवस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्ति । एतस्यैव भावनार्थमुच्यते-गोलेहि हिए लोगे आगच्छइ जं तमेगजीवस्स । उक्कोसपयगय|पएसरासितुलं हवइ जम्हा ॥ २१ ॥ 'गोलैः' गोलावगाहनाप्रदेशैः कल्पनया दशसहस्रसङ्ख्यैः 'हृते' विभक्त हृतभाग इत्यर्थः। 'लोके' लोकप्रदेशराशौ कल्पनया एककोटीशतप्रमाणे 'आगच्छति' लभ्यते 'यत्' सर्वगोलसङ्ख्यास्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मात्तस्माद्गोला उत्कृष्टपदैकजीवप्रदेशैस्तुल्या भवन्तीति प्रकृतमेवेति । एवं गोलकानामुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थितं, पुनस्तदेव प्रकारान्तरेण समर्थयति-अहवा लोगपएसे एक्केके ठविय गोलमेक्ककं । एवं उक्कोसपएक्कजियपएसेसु मायति ॥ २२ ॥ अथवा लोकस्यैव प्रदेशे एकैकस्मिन् 'स्थापयनिधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैकं, ततश्च | CANANCER- C ॥५३०॥ HIEX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy