SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ | मुइन्तु जो अन्नो । होइ निगोओ तंमिवि अन्नो निष्फज्जती गोलो ॥ ७ ॥ तमेवोत्तलक्षणं गोलकमाश्रित्यान्यो गोलको निष्पद्यते, कथम् ?, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति । तथा च यत्स्यात्तदाह-एवं निगोयमेत्ते खेत्ते गोलस्स होइ निष्पत्ती । एवं निप्पज्जंते लोगे गोला असंखिज्जा ॥ ८ ॥ 'एवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलकान्तरानुप्रवेशात्, एवं च निष्पद्यन्ते लोके गोलका असङ्ख्येयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगा| हनं च गोलकनिष्पत्तेरिति ॥ अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्काया. | माह-ववहारनएण इमं उक्कोसपयावि एत्तिया चेव । जं पुण उक्कोसपयं नेच्छइयं होइ तं वोच्छं ॥ ९ ॥ 'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुक्तं, काक्वा वेदमध्येयं तेन नेहेदं ग्राह्यमित्यर्थः स्यात् अथ कस्मादे|वम् ? इत्याह- 'उको सपयावि एत्तिया चेव'त्ति न केवलं गोलका असङ्ख्येयाः उत्कर्षपदान्यपि परिपूर्णगोलकप्र| रूपितानि एतावन्त्येव - असङ्ख्येयान्येव भवन्ति यस्मात्ततो न नियतमुत्कृष्टपदं किञ्चन स्यादिति भावः, यत्पुनरुत्कृष्टपदं नैश्चयिकं भवति सर्वोत्कर्षयोगाद् यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये । तदेवाह - त्रायरनि गोयविग्गहगइयाई जत्थ समहिया अन्ने । गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ॥ १० ॥ बादरनिगोदानां - कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दश्चेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये- सूक्ष्मनिगोद्गोलकेभ्योऽपरे गोलका भवेयुः सुबहवो नैश्चयिकपदं तदुत्कर्ष, बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy