SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५२८ ॥ उक्कोसपए असंखगुणा ॥ ५ ॥ स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह - निगोदमात्रे क्षेत्रेऽवगाहना येषां ते तथा एकावमाहना इत्यर्थः, तैरेव यलपर्शनं - अवगाहनं जघन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात् खण्डगोलकनि| ष्पादकनिगोदैस्तस्यासंस्पर्शन् । दित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेश सदृशो हि जघन्यपदाख्यः प्रदेशः, तं चालो|कसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोलनिष्पादकाः, तत्र किल जघन्यपदं कल्पनया जीवशतं स्पृशति, तस्य च प्रत्येकं कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवं जघन्यपदे कोटी जीवप्रदेशानामवगाढेत्येवं स्तोकास्तत्र | जीवप्रदेशा इति । अथोत्कृष्टपदजीवप्रदेशपरिमाणमुच्यते - 'फुसणासंखगुणत्त'त्ति स्पर्शनायाः - उत्कृष्टपदस्य पूर्णगोलकनि| ष्पादकनिगोदैः संस्पर्शनाया यदसङ्ख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेऽसङ्ख्यातगुणा जीवप्रदेशा | जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्ण गोलक निष्पादक निगोदैरेकावगाहनैरसङ्ख्येयैः तथोत्कृष्टपदाविमोचने नै केकप्र| देशपरिहानिभिः प्रत्येकमसङ्ख्येयैरेव स्पृष्टं तच्च किल कल्पनया कोटी सहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेश| लक्षस्यावगाहनाज्जीषप्रदेशानां दशकोटीकोव्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्येयगुणा भावनीया इति । अथ गोलकप्ररूपणायाह — उक्कोसपयममोतुं निगोयओगाहणाऍ सबत्तो । निप्फाइज्जइ गोलो पएसपरिवुद्धिहाणीहिं ॥ ६ ॥ 'उत्कृष्टपदं' विवक्षित प्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः 'सर्वतः ' सर्वासु दिक्षु निगोदान्तराणि स्थापयद्भिर्निष्पाद्यते गोलः कथं ?, प्रदेशपरिवृद्धिहानिभ्यां कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्विमुञ्चद्भिरित्यर्थः एवमेकगोलकनिष्पत्तिः, स्थापना चेयम्-० । गोलकान्तरकल्पनायाह — तत्तोच्चि गोलाओ उक्कोसपर्यं Jain Education International For Personal & Private Use Only ११ शतके १० उद्देशः निगोदषटूत्रिंशिका सू ४२३ ॥ ५२८ ॥ www.jairelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy