SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ जीवप्रदेशा इति ॥ अयं च सूत्रार्थोऽमूभिवृद्धोक्तगाथाभिर्भावनीयः-लोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं । उक्को-13 सपए य तहा सबजियाणं च के बहुया ? ॥१॥ इति प्रश्नः, उत्तरं पुनरत्र-थोवा जहण्णयपए जियप्पएसा जिया असंख-8 गुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया ॥ २ ॥ अथ जघन्यपदमुत्कृष्टपदं चोच्यते-तत्थ पुण|| जहन्नपयं लोगंतो जत्थ फासणा तिदिसिं । छद्दिसिमुक्कोसपयं समत्तगोलंमि णण्णत्थ ॥ ३ ॥ तत्र-तयो जघन्येतरपदयोर्जघन्यपदं लोकान्ते भवति 'जत्थ'त्ति यत्र गोलके स्पर्शना निगोददेशैस्तिसृष्वेव दिक्ष भवति, * शेषदिशामलोकेनावृतत्वात् , सा च खण्डगोल एव भवतीति भावः, 'छदिसिं'ति यत्र पुनर्गोलके षट्स्वपि दिक्षु निगोPा ददेशैः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगौलैः परपूर्णगोलके भवति, नान्यत्र, खण्डगोलके न भवती-|| त्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति ॥ अथ परिवचनमाशङ्कमान आह-उक्कोसमसंखगुणं जहन्नयाओ पयं || हवइ किं तु ? । नणु तिदिसिंफुसणाओ छद्दिसिफुसणा भवे दुगुणा ॥ ४ ॥ उत्कर्ष-उत्कृष्टपदमसङ्ख्यातगुणं जीवप्रदे-||६|| शापेक्षया जघन्यकात्पदादिति गम्यं, भवति 'किन्तु' कथं तु, न भवतीत्यर्थः, कस्मादेवम् ? इत्याह-ननु'निश्चितम् , अक्षमायां वा ननुशब्दः, त्रिदिक्स्पर्शनायाः सकाशात् पदिक्पर्शना भवेद्विगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत | इति, अतो द्विगुणमेवोत्कृष्टं पदं स्यादसङ्ख्यातगुणं च तदिष्यते, जघन्यपदाश्रितजीवप्रदेशापेक्षयाऽसङ्ख्यातगुणसर्वजीवेभ्यो &ा विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम्-थोवा जहन्नयपए निगोयमित्तावगाहणाफुसणा । फुसणासंखगुणत्ता || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy