________________
निगोदषट्
व्याख्या- गच्छतां देवानां कथं षट्स्वपि दिक्षु गतादगतं क्षेत्रमसङ्ख्यातभागमात्र अगताच्च गतमसङ्ख्यातगुणमिति ?, क्षेत्रवैषम्या- ११ शतके प्रज्ञप्तिः
दिति भावः, अत्रोच्यते, घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु यद्युक्तस्वरूपयाऽपि गत्या गच्छन्तो १० उद्देशः अभयदेवीया वृत्तिः२/
देवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति? बहुत्वात्क्षेत्रस्याल्पत्वादवतरणकालस्येति, सत्यं, किन्तु मन्देयं गतिः जिनजन्माद्यवतरणगतिस्तु शीघ्रतमेति । 'असम्भावपट्ठवणाए'त्ति असद्भूता
त्रिंशिका ॥५२७॥ दार्थकल्पनयेत्यर्थः॥ पूर्व लोकालोकवक्तव्यतोक्ता, अथ लोकैकप्रदेशगतं वक्तव्यविशेष दर्शयन्नाह–'लोगस्स 'मित्यादि,
सू४२३ 'अस्थि णं भंते'त्ति अस्त्ययं भदन्त ! पक्षः, इह च त इति शेषो दृश्यः, 'जाव कलिय'त्ति इह यावत्करणादेवं दृश्यPil 'संगयगयहसियभणियचिठियविलाससललियसंलावनिउणजुत्तोवयारकलिय'त्ति, 'बत्तीसइविहस्स नहस्स'त्ति द्वात्रिं-|
शद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्तिचित्रो नामैको नाट्यविधिः, एतच्चरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः । लोकैकप्रदेशाधिकारादेवेदमाह-लोगस्स ण'मित्यादि, अस्य व्याख्या-यथा किलतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि | दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोकाकाशप्रदेशेऽनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका ||
॥५२७॥ निगोदाः पृथिव्यादिसर्वजीवासङ्ख्येयकतुल्याः सन्ति, तेषां चैकैकस्मिन्नाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति, तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असङ्ख्येयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org