________________
5555
ते। एगमि आगासपएसे इत्यादि, नो जीवा एकप्रदेशे तेपामनवगाहनात्, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य || चावगाहनात् उच्यते 'जीवदेसावि जीवपएसावित्ति, यद्यपि धर्मास्तिकायाधजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते तथाऽपि परमाणुकादिद्रव्याणां कालद्रव्यस्य चावगाहनादुच्यते-'अजीवावित्ति,न्यणुकादिस्कन्धदेशानां त्ववगाहनादुकम्-अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीवपएसावित्ति, 'एवं मज्झिल्लविरहिओ'त्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिदियदेसा य बेइंदियदेसाय' इत्येवंरूपो यो मध्यमभङ्गस्तद्विरहितोऽसौ त्रिकभङ्गः, 'एव'मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यो,मध्यमभङ्गहासम्भवात् , तथाहिद्वीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहवो देशा न सन्ति, देशस्यैव भावात् , 'एवं आइल्लविरहिओत्ति 'अहवा एगिदियस्स पएसा य ३दियस्स पएसा य' इत्येवंरूपाद्यभङ्गकविरहितस्त्रिभङ्गः, "एवं'मिति सूत्रप्रदर्शितभङ्गद्वयरूपोऽध्येतव्यः, आधभङ्गकस्येहासम्भवात् , तथाहि-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसवातानामेव भावादिति, 'अणिदिएसु तियभंगोत्ति अनिन्द्रियेषूक्तभङ्गकत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति । 'रूवी तहेव'त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः 'नो धम्मत्थिकाये'त्ति नो धर्मास्तिकाय एकत्राकाशप्रदेशे संभवत्यसङ्ख्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्थिकायस्स देसे'त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनर्थान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्तं, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मत्थिकायस्स पएसे'त्ति, 'एवमहम्म
64%AKRA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org