SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ व्याख्या• प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५२३॥ | क्षेत्रलोकः, आह च - " आगासरस पएसा उड्डुं च अहे य तिरियलोए य । जाणाहि खेत्तलोयं अनंत जिणदेसियं | सम्मं ॥ १ ॥” [ आकाशस्य प्रदेशा ऊर्द्ध चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥ १ ॥ ] | 'काललोए 'त्ति काल :- समयादिः तद्रूपो लोकः काललोकः, आह च – “समयावली मुहुत्ता दिवस अहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ॥ १ ॥ • समय आवलिका मुहूर्त्तः दिवसः अहोरात्रं पक्षो मासश्च संवत्सरो युगं पल्यः सागरः उत्सर्पिणी परावर्त्तः ॥ १ ॥ ] 'भावलोए'त्ति भावलोको द्वेधा-आगमतो नोआगमतश्च, | तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा - औदयिकादयस्तद्रूपो लोको भावलोकः, आह च - "ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छबिहो | भावलोगो उ ॥ १ ॥ " [ औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सन्निपातश्च विध | भावलोकस्तु ॥ १ ॥ ] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा, आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञान| स्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोएं 'ति अधोलोकरूपः क्षेत्रलोकोऽधो| लोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधःस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोए' त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरूपत्वात्तिर्यग्लोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोक क्षेत्रलोकः, 'उडलोयखेत्तलोए 'त्ति तिर्यग् लोकस्योपरि देशोनसप्त Jain Education International For Personal & Private Use Only ११ शतके १० उद्देशः द्रव्यक्षेत्रा• दिलोकः सु ४२० ॥५२३॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy