________________
ओ णं अहेंलोगखेसलोए अनंता बन्नपज्जवा जहा खंदए जाव अनंता अगुरुयलहुयपज्जवा एवं जाब लोए, भावओ णं अलोए नेवत्थि वन्नपज्जवा जाव मेवत्थि अगुरुयल हुयपज्जवा एगे अजीवदवदेसे जाव अनंतभागूणे । ( सूत्रं ४२० ) ॥
'रायगिहे ' इत्यादि, 'दवलोए' त्ति द्रव्यलोक आगमतो नोआगमतश्च, तन्नागमतो द्रव्यलोको लोकशब्दार्थज्ञस्तत्रानुपयुक्तः 'अनुपयोगो द्रव्य मिति वचनात्, आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम् - " आगम ओऽणुवउत्तो मंगलसद्दाणुवासिओ बत्ता । तन्नाणलद्धिजुत्तो उ नोवउत्तोत्ति दवं ॥ १ ॥”ति [ आगमतो मङ्गलशब्दानुवासितोऽनुपयुक्तो बता तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति द्रव्यमिति ॥ १ ॥ ] नोआगमतस्तु ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः स च ज्ञशरीररूपो द्रव्यभूतो | लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवद् भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह - " जीवमंजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दबलोयं निश्चमणिच्चं च जं दबं ॥ १ ॥ " [ जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्च जानीहि द्रव्यलोकं नित्यमनित्यं च यद्रव्यम् | ॥ १ ॥ ] इहापि नोशब्दः सर्वनिषेधे आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोए'ति क्षेत्ररूपो लोकः स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org