________________
CSMSSSOCIA5
कर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यते तेन तपःकर्मणेति 'ताहिं इटाहिं कताहिं पियाहिं' इत्यत्र "एवं जहा उववाइए' इत्येतत्करणादिदं दृश्य-'मणुन्नाहि मणामाहिं जाव वग्गूहि अणवरयं अभिनंदंता य अभिथुणंता य एवं वयासी-जय २ नंदा जय जय भहा! जय २ नंदा! भई ते अजियं जिणाहि जियं पालियाहि जियमझे वसाहि अजियं च जिणाहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जियविग्धोऽविय वसाहि तं देव ! सयणमज्झे इंदो इव देवाणं चंदो इव ताराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बहूई वाससहस्साई अणहसमग्गे य हहतुट्ठो'त्ति, एतच्च व्यक्तमेवेति ॥'वागलवत्थनियत्थे'त्ति वल्कलं-वल्कस्तस्येदं वाल्कलं सद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः 'उडए'त्ति उटजः-तापसगृहं 'किढिणसंकाइयगंति 'किढिण'त्ति वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्कायिकं-भारोद्वहनयन्त्रं किढिणसाङ्कायिक 'महाराय'त्ति लोकपाल: 'पत्थाणे पत्थियति 'प्रस्थाने' परलोकसाधनमार्गे 'प्रस्थितं' प्रवृत्तं फलाद्याहरणार्थ गमने वा प्रवृत्तं शिवराजर्षि 'दब्भे य'त्ति समूलान् | | 'कुसे यत्ति दर्भानेव निर्मूलान् 'समिहाओ यत्ति समिधः-काष्ठिकाः 'पत्तामोडं च' तरुशाखामोटितपत्राणि 'वेदि बड्ढेइ'त्ति वेदिकां-देवार्चनस्थानं वर्द्धनी-बहुकरिका तां प्रयुत इति वर्द्धयति-प्रमार्जयतीत्यर्थः 'उवलेवणसमजणं करेइ'त्ति इहोपलेपनं गोमयादिना संमर्जनं तु जलेन संमार्जनं वा शोधन दमकलसाहत्थगए'त्ति दर्भाश्च कलशश्च हस्ते गता यस्य स तथा 'दभसगम्भकलसगहत्थगए'त्ति क्वचित् तत्र दर्भेण सगर्भो यः कलशकः स हस्ते गतो यस्य स तथा 'जलमजणं'ति जलेन देहशुद्धिमानं 'जलकीडंति देहशुद्धावपि जलेनाभिरतं 'जलाभिसेयंति जलक्षरणम् 'आयंते'त्ति
%
dain Education International
For Personal & Private Use Only
www.jainelibrary.org