SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आहारकद्वारे 'आहारए वा अणाहारए वति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । सम्झाद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवद्व्याख्येयाः । 'से णं भंते ! उप्पलजीवेत्ति इत्यादिनोत्पलत्वस्थितिरनुबन्धपर्यायतयोक्ता । 'से णं भंते ! उप्पलजीवे पुढविजीवेत्ति इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च 'भवादेसेणं'ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्नेणं दो भवग्गहणाई' ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति । 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्त 'ति पृथिवीत्वेनान्तर्मुहूर्त्त पुनरुत्पलत्वे | नान्तर्मुहूर्त्तमित्येवं कालादेशेन जघन्यतो द्वे अन्तर्मुहूर्त्ते इति, एवं द्वीन्द्रियादिषु नेयम्, 'उकोसेणं अट्ठ भवग्गह| णाई'ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'उकोसेणं पुचकोडी पुष्टुत्तं' ति चतुर्षु पश्चेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वकोव्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्वृत्त जीवयोग्योत्कृष्ट पश्चेन्द्रिय| तिर्यक् स्थितेर्भहणात् उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति । 'एवं जहा आहारुद्देसए वणस्सइकाइयाण' मित्यादि, अनेन च यदतिदिष्टं तदिदं - 'खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरकालट्ठियाई भावओ वन्नमताई' इत्यादि, 'सङ्घप्पणयाए 'त्ति सर्वात्मना 'नवरं नियमा छद्दिसिं'ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु दिक्षु स्याच्चतसृषु दिक्षु इत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावान्नियमात्षट्सु दिक्ष्वाहारयन्तीति । 'वक्कंतीए 'त्ति प्रज्ञापनायाः षष्ठपदे 'उब| हणाए 'ति उद्वर्त्तनाधिकारे, तत्र चेदमेवं सूत्रं - 'मणुपसु उववज्जंति देवेसु उववज्जंति ?, गोयमा ! नो नेरइएसु उव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy