SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५१२ ॥ स्थापना - वं १, अ. १, बं ३, अ ३, बं १ अ १, बं १ अ ३, बं ३ अ १, बं ३ अनं ३ । ५ । वेदनद्वारे ते भदन्त । जीवा | ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्र तु बहुवचनान्तता एवं यावदन्तरायस्य, वेदनीये सातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परं तु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्म्मणोऽनुभवः, उदयश्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेsपि भेदेनोदयित्वप्ररूपण ७ मिति । उदीरणाद्वारे 'नो अणुदीरग'त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् । 'वेयणिजाउएस अट्ठ भंग' त्ति वेदनीये - सातासातापेक्षया आयुषि पुनरुदीरकत्वानुदीरकत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति ॥ लेश्याद्वारेऽशीतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी, चतुर्णां च पदानां षड् द्विकयोगास्ते च चतुर्गुणाश्चतुर्विंशतिः, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णा च पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वे'त्यादि ॥ वर्णादिद्वारे 'ते पुण अप्पणा अवन्न'त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण'त्ति स्वरूपेण 'अवर्णा' वर्णादिवर्जिताः अमूर्त्तत्वात्तेषामिति ॥ उच्छ्रासकद्वारे 'नो उस्सासनिस्सास ए ति अपर्याप्तावस्थायाम्, इह च षड्विंशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्व बहुत्वाभ्यां तिस्रश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह - 'एए छबीसं भंगा भवंति 'त्ति ॥ Jain Education International For Personal & Private Use Only १९ शतके १ उद्देशः उत्पलाधिकारः सू ४०९ ॥५१२॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy