________________
हि एकपत्रावस्थं तदैकजीवं तत्, यदा तु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकपत्रावस्था तस्येति बहवो जीवातत्रोत्पद्यन्त इति एतदेवाह - 'तेण पर' मित्यादि, 'तेण परं'ति ततः - प्रथमपत्रात् परतः 'जे अन्ने जीवा उववज्जंति'त्ति येऽन्ये - प्रथमपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात्पत्रादयोऽवयवा उत्पद्यन्ते ते 'नैकजीवा' नैकजीवाश्रयाः | किन्त्वनेकजीवाश्रया इति, अथवा 'तेणे'त्यादि, ततः- एकपत्रात्परतः शेषपत्रादिष्वित्यर्थः येऽन्ये जीवा उत्पद्यन्ते ते 'नैकजीवा' नैककाः किन्त्वनेकजीवा अनेके इत्यर्थः ॥ 'ते णं भंते ! जीव'त्ति ये उत्पले प्रथमपत्राद्यवस्थायामुत्पद्यन्ते 'जहा वक्कंतीए 'त्ति प्रज्ञापनायाः षष्ठपदे, स चैवमुपपातः - 'जइ तिरिक्खजोणिएहिंतो उववजंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्जंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ?, गोयमा ! एगिं दियतिरिक्खजोणिएहिं| तोवि उववज्जंति' इत्यादि, एवं मनुष्यभेदा वाच्या: - 'जइ देवेहिंतो उववज्र्ज्जति किं भवणवासी' त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्युपयुज्य वाच्यमिति, तदेतेनोपपात उक्तः ॥ 'जहन्त्रेण एक्को वे'त्यादिना तु परिमाणम् २ । 'ते णं असंखेज्जा समए' इत्यादिना त्वपहार उक्तः, एवं द्वारयोजना कार्या ३ । उच्चत्वद्वारे 'साइरेगं जोयणसहस्सं'ति तथाविधसमुद्रगोतीर्थका दाविदमुच्चत्वमुत्पलस्यावसेयम् ४ । बन्धद्वारे 'बंधए बंधया व'त्ति एकपत्रावस्थायां | बन्धक एकत्वात् द्व्यादिपत्रावस्थायां च बन्धका बहुत्वादिति, एवं सर्वकर्मसु, आयुष्त्रे तु तदबन्धावस्थाऽपि स्यात् तद्|| पेक्षया चाबन्धकोऽपि अबन्धका अपि च भवन्तीति एतदेवाह - 'नवर 'मित्यादि, इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौ बहुवचनेन च द्वौ द्विकयोगे तु यथायोगमेकत्व बहुत्वाभ्यां चत्वारः इत्येवमष्टौ विकल्पाः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org