SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ४ तानि-अच्छिन्नानि आख्यानकप्रतिबद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रीतलतालानां च 'तुडिय'त्ति शेष तूर्याणां च घनमृदङ्गस्य च-मेघसमानध्वनिमईलस्य पटुना पुरुषेण प्रवादितस्य यो रवः स तथा तेन प्रभु गान् भुञ्जानो विहर्तुमित्युक्तं, तत्रैव विशेषमाह-केवलं परियारिड्डीए'त्ति 'केवलं' नवरं परिवार:-परिचारणा स चेह स्त्रीशब्दश्रवणरूपसंदर्शनादिरूपः स एव ऋद्धिः-सम्पत् परिवारर्द्धिस्तया परिवारा वा कलत्रादिपरिजनपरिचारणा|मात्रेणेत्यर्थः 'नो चेव णं मेहुणवत्तियति नैव च मैथुनप्रत्ययं यथा भवति एवं भोगभोगान् भुञ्जानो विहर्नु प्रभुरिति | प्रकृतमिति ॥ 'परियारो जहा मोउद्देसए'त्ति तृतीयशतस्य प्रथमोद्देशके इत्यर्थः 'सओ परिवारो'त्ति धरणस्य स्वकः परिवारो वाच्यः, स चैवं-'हिं सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं छहिं अग्गमहिसीहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चउवीसाए आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं नागकुमारेहि |देवेहि य देवीहि य सद्धिं संपरिबुडे'त्ति 'एवं जहा जीवाभिगमें' इत्यादि, अनेन च यत्सूचितं तदिदं-'तत्थ णं एगमे| गाए देवीए चत्तारि २ देविसाहस्सीओ परिवारो पन्नत्तो, पहू णं ताओ एगमेगा देवी अन्नाई चत्तारि २ देवीसहस्साई परिवार विउवित्तए, एवामेव सपुषावरेणं सोलस देविसाहस्सीओ पन्नत्ताओ'इति 'सेत्तं तुडिय'मित्यादीति, एवं अट्ठासीतिएवि महागहाणं भाणिय'ति, तत्र द्वयोर्वक्तव्यतोक्तैव शेषाणां तु लोहिताक्षशनैश्चराघुणिकप्राघुणिककणककणकणादीनां सा वाच्येति । 'विमाणाई जहा तइयसए'त्ति तत्र सोमस्योक्तमेव यमवरुणवैश्रमणानां तु क्रमेण वरसिह Jain Education For Personal & Private Use Only ww.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy