________________
आभिनिबोधिकज्ञानम्-इन्द्रियानिन्द्रियनिमित्तो बोध इति । 'सुयनाणे'त्ति श्रूयते तदिति श्रुतं-शब्दः स एव ज्ञानं भावश्रुतकारणत्वात् कारणे कार्योपचारात् श्रुतज्ञानं, श्रुताद्वा-शब्दात् ज्ञानं श्रुतज्ञानम्-इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारी बोध इति । 'ओहिणाणे'त्ति अवधीयते-अधोऽधो विस्तृतं वस्तु परिच्छिद्यतेऽनेनेत्यवधिः स एव ज्ञानम् अवधिना वा-मर्यादया मूर्त्तद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानं 'मणपज्जवणाणे'त्ति मनसोमन्यमानमनोद्रव्याणां पर्यवः-परिच्छेदो मनःपर्ययः स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्यायाणां वा-तदवस्थाविशेषाणां| ज्ञानं मनःपर्यायज्ञानम् । केवलणाणे'त्ति केवलमेकं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् 8 सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वाऽनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् | यथाऽवस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानम् । 'उग्गहो'त्ति सामान्यार्थस्य-अशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहण-परिच्छेदनमवग्रहः 'ईह'त्ति सदर्थविशेषालोचनमीहा 'अवाओ'त्ति प्रक्रान्तार्थविनिश्चयोऽवायः 'धारणे'ति अवगतार्थविशेषधरणं धारणा 'एवं जहे त्यादि, 'एवम्' उक्तक्रमेण यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भणितस्तथैवेहापि भणितव्यः, स चैवम्-'से किं तं | उग्गहे ?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे य वंजणोग्गहे य'इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधि-8 |कारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा ये'त्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-'इच्चेयंमि दुवालसंगे गणिपिडए अणंता भावा अणंता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org