SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ||| एसा न एसा भासा मोसा?, हंता गोयमा! आसइस्सामो तं चेव जाव न एसा भासा मोसा । सेवं भंते ! सेवं भंतेत्ति (सूत्रं ४०३) दसमे सए तईओ उद्देसो॥१०-३॥ ___ "आसस्से'त्यादि, 'हिययस्स य जगयस्स यत्ति हृदयस्य यकृतश्च-दक्षिणकुक्षिगतोदरावयवविशेषस्य 'अन्तरा' |४|| अन्तराले ॥ अनन्तरं 'खुखु'त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रद शयितुमाह-'अह भंते ! इत्यादि, अथेति परिप्रश्नार्थः "भंते ति भदन्त ! इत्येवं भगवन्तं महावीरमामय गौतमः पृच्छति-'आसइस्सामो'त्ति आश्रयिष्यामो वयमाश्रयणीयं वस्तु 'सइस्सामो'त्ति शयिष्यामः 'चिहिस्सामो'त्ति ऊस्थानेन स्थास्यामः 'निसिइस्सामोत्ति निषेत्स्याम उपवेश्याम इत्यर्थः 'तुयहिस्सामो'त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी ? इति योगः ॥ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति-'आमंतणि'गाहा, तत्र आमन्त्रणी' हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादिकामपि, 'आणवणि'त्ति आज्ञापनी कार्ये परस्य प्रवर्तनी यथा घटं कुरु 'जायणि'त्ति याचनी-वस्तुविशेषस्य | देहीत्येवंमार्गणरूपा तथेति समुच्चये 'पुच्छणी य'त्ति प्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा 'पण्णवणि'त्ति प्रज्ञापनी-विनेयस्योपदेशदानरूपा यथा-"पाणवहाओं नियत्ता भवंति दीहाउया अरोगा |य । एमाई पन्नवणी पन्नत्ता वीयरागेहिं ॥१॥" [प्राणवधान्निवृत्ता दीर्घायुषोऽरोगाश्च भवन्तीत्यादिः प्रज्ञापनी भाषा ॐॐॐॐॐSHASTRA SEARSARKAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy