SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५००॥ वीतरागैः प्रज्ञप्ता ॥ १ ॥ ] ' पच्चक्खाणीभास 'त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्या| ख्यानरूपा भाषा 'इच्छानुलोम' त्ति प्रतिपादयितुर्या इच्छा तदनुलोमा - तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः । 'अणभिग्गहिया भासा'गाहा, अनभिगृहीता - अर्थानभिग्रहेण योच्यते डित्थादिवत् 'भासा य अभिग्गमि बोद्धवा' भाषा चाभिग्रहे बोद्धव्या-अर्थमभिगृह्य योच्यते घटादिवत्, 'संसयकरणी भास'त्ति याऽनेकार्थप्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्त्तमान इति 'वोयड'ति व्याकृता लोकप्रतीतशब्दार्था 'अघोयड'त्ति अव्याकृता - गम्भीरशब्दार्था मन्मनाक्षरप्रयुक्ता वाडनाविर्भावितार्था, 'पनवणी णं'ति प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी - अर्थकथनी वक्तव्येत्यर्थः, 'न एसा मोस' त्ति नैषा मृषा-नार्थानभिधायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायः- आश्रयिष्याम इत्यादिका भाषा भविष्यत्कालविषया सा चान्तरायस| म्भवेन व्यभिचारिण्यपि स्यात् तथैकार्थविषयाऽपि बहुवचनान्ततयोक्तेत्येवमयथार्था तथा आमन्त्रणीप्रभृतिका विधिप्रतिषेधाभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् । इति, उत्तरं तु 'हंता' इत्यादि, इदमत्र हक्यम्| आश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भत्वादात्मनि गुरौ चैकार्थत्वेऽपि बहुवचनस्यानुमत| त्वात्प्रज्ञापन्यैव तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या निरवद्यपुरुषार्थसाधनी सा प्रज्ञापन्येवेति ॥ दशमशते तृतीयोदेशकः ॥ १० ॥ ३ ॥ Jain Education Internal For Personal & Private Use Only १० शतके उद्देशः ३ अश्वशब्दः भाषास्व. सू ४०२ ४०३ ॥५००॥ wwwlainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy