SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः १० शतके | उद्देशः२ | योनिः । वेदनाश्च अभयदेवीया वृत्तिः२ सू ३९७ ॥४९७॥ | तच्च लेशतो दयते-'नेरइयाणं भंते ! किं सीयं वेयणं वेयंति ३ १, गोयमा ! सीयंपि वेयणं वेयंति एवं उसिणंपि णो सीओसिणं' एवमसुरादयो वैमानिकान्ताः 'एवं चउविहा वेयणा दवओ खेत्तओ कालओ भावओ' तत्र पुद्गल| द्रव्यसम्बन्धाद्र्व्यवेदना नारकादिक्षेत्रसम्बन्धात्क्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदना शोकक्रोधादिभावसम्ब न्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि, तथा 'तिविहा वेयणा-सारीरा माणसा सारीरमाणसा' समनस्कास्त्रि| विधामपि असज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिणस्त्रिविधामपि, तथा 'तिविहा वेयणा-दुक्खा सुहा अदुक्खमसुहा' सर्वे त्रिविधामपि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते | अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानामनुभवरूपे, सुखदुःखे तु परोदीर्यमाणवेदनीयानुभवरूपे, तथा 'दुविहा वेयणा-अब्भुवगमिया उवक्कमिया' आभ्युपगमिकी या स्वयमभ्युपगम्य वेद्यते यथा साधवः केशोल्लुश्चनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन चोदयमुपनीतस्य वेद्यस्यानुभवात् , द्विविधामपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च शेषास्त्वीपक्रमिकीमेवेति, तथा 'दुविहा वेयणा-निदा य अनिदा य' निदा-चित्तवती विपरीता त्वनिदेति, सज्ञिनो द्विविधामसज्ञिनस्त्वनिदामेवेति। इह च प्रज्ञापनायां द्वारगाथाऽस्ति, सा चेयं-"सीया य दब सारीर साय तह वेयणा हवइ दुक्खा। अब्भुवगमुवक्किमिया निदाय अनिदाय नायवा ॥१॥" अस्याश्च पूर्वार्दोक्तान्येव द्वाराण्यधिकृतवाचनायां सूचितानि यतस्तत्राप्युक्तं 'निदा य अनिदा य वज'ति ॥ वेदनाप्रस्तावाद्वेदनाहेतुभूतां प्रतिमा निरूपयन्नाह मासियण्णं भंते ! भिक्खुपडिम पडिवनस्स अणगारस्स निच्चं वोसढे काये चियत्ते देहे, एवं मासिया भिक्खु ४९७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy