SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४९४॥ | देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना - 'एगिं०देसा ३ बेई १ देसे एगिं०देसा ३ बेई १ देसा ३ एगिं०देसा ३ बेई० ३ देसा ३ |' एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्गकत्रयं दृश्यम् एवं प्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्र| देशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्य विरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह - 'आइल्लविरहिओ' - त्ति द्विकभङ्ग इति शेषः । 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा | इंदाए' त्ति समानवक्तव्यत्वात्, 'एवं तमावि'त्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते ? इति उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाः प्रदेशाश्च विव क्षायां तत्रापि युक्ता एवेति । अथ तमायां विशेषमाह-'नवर' मित्यादि, 'अडासमयो न भन्नइति समयव्यवहारो | हि सचरिष्णु सूर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्य - | साविति कथं तत्र समयव्यवहारः ? इति उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सञ्चारि| ष्णु सूर्यादिप्रकाशभावादिति । अनन्तरं जीवादिरूपा दिशः प्ररूपिताः, जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूपणायाह-कति ! सरीरा पता ?, गोयमा ! पंच सरीरा पनन्ता, संजहा- ओरालिए जाव कम्मए । ओरालि Jain Education International For Personal & Private Use Only १० शतके उद्देशः १ दिगादौ जीवादिः सू ३९४ ॥४९४॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy