________________
E
रुचकाकारे, आह च-"सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावलीव चउरो दो चेव य होति रुयगनिभेट
॥१॥” इति । 'जीवावी'त्यादि, ऐन्द्री दिग् जीवा तस्यां जीवानामस्तित्वात् , एवं जीवदेशा जीवप्रदेशाश्चेति, तथाऽ४जीवांनां पुद्गलादीनामस्तित्वादजीवाः धर्मास्तिकायादिदेशानां पुनरस्तित्वादजीवदेशाः एवमजीवप्रदेशा अपीति, तत्र ये||3||
जीवास्त एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनः, ये तु जीवदेशास्त एकेन्द्रियादीनाम् ६, एवं जीवप्रदेशा अपि, 'जे अरूवी अजीवा ते सत्तविह'त्ति, कथं ?, नोधम्मत्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, स च प्राचीदिग् न भवति, | तदेकदेशभूतत्वात्तस्याः, किन्तु धर्मास्तिकायस्य देशः, सा तदेकदेशभागरूपेति १, तथा तस्यैव प्रदेशाः सा भवति, अस
येयप्रदेशात्मकत्वात्तस्याः २, एवमधर्मास्तिकायस्य देशः प्रदेशाश्च ३-४, एवमाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, | अद्धासमयश्चेति ७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति ॥ 'अग्गेयी ण'मित्यादिप्रश्नः, उत्तरे तु जीवा निषेधनीयाः, विदिशामेकप्रदेशिकत्वादेकप्रदेशे च जीवानामवगाहाभावात् , असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीव-1 देसा ते नियमा एगिंदियदेस'त्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, | "अहवे'त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्यापि तस्य सम्भवादुच्यते एके४न्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो व्यादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं
१ शकटोद्धिसंस्थिताश्चतस्रो महादिशो भवन्ति चतस्रो मुक्तावलीव द्वे च रुचकनिभे भवतः ॥१॥ (ऊर्धाधोदिशौ)
CEREMOCROCHOCK
Jain Education International
For Personal & Private Use Only
ma.jainelibrary.org