________________
तदेवं संस्तारककर्तृसाधुभिरपि क्रियमाणस्याकृततोक्ता, ततश्चासौ स्वकीयवचनसंस्तारककर्तृसाधुवचनयोर्विमर्शात् प्ररूपितवान्-क्रियमाणं कृतं यदभ्युपगम्यते तन्न सङ्गच्छते, यतो येन क्रियमाणं कृतमित्यभ्युपगतं तेन विद्यमानस्य करणक्रिया प्रतिपन्ना, तथा च बहवो दोषाः, तथाहि-यत्कृतं तक्रियमाणं न भवति, विद्यमानत्वाच्चिरन्तनघटवत् , अथ कृतमपि क्रियते ततः क्रियतां नित्यं कृतत्वात् प्रथमसमय इवेति, न च क्रियासमाप्तिर्भवति सर्वदा क्रियमाणत्वादादिसमय| वदिति, तथा यदि क्रियमाणं कृतं स्यात्तदा क्रियावैफल्यं स्वाद् अकृतविषय एव तस्याः सफलत्वात् , तथा पूर्वमसदेव भवदृश्यने इत्यध्यक्षविरोधश्च, तथा घटादिकार्यनिष्पत्तौ दीर्घः क्रियाकालो दृश्यते, यतो नारम्भकाल एव घटादिकार्य दृश्यते नापि स्थासकादिकाले, किं तर्हि, तक्रियाऽवसाने, यतश्चैवं ततोन क्रियाकालेषु युक्त कार्य किन्तु क्रियाऽवसान एवेति, आह च भाष्यकार:-"जस्सेह कजमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवना तहा य बहुदोसपडिवत्ती॥१॥ कयमिह न कजमाणं तब्भावाओ चिरंतणघडोब । अहवा कयंपि कीरइ कीरउ निच्चं न य समत्ती । |॥२॥ किरियावेफलंपि य पुबमभूयं च दीसप हुंतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥३॥ नारंभे चिय।
एक कार्य एव पटवलदेव
। १ यस्येह क्रियमाणं कृतमिति मतं तेनेह विद्यमानस्य करणक्रियाऽङ्गीकृता तथा च बहुदोषापत्तिः ॥ १॥ इह कृतं न क्रियमाणं तद्भावाचिरन्तनघट इव । अथवा कृतमपि चेक्रियते करोतु नित्यं न च समाप्तिः ॥ २ ॥ क्रियावैफल्यमपि च पूर्वमभूतं च भवदृश्यते ( दृष्टापलापः ) यतो घटादीनां क्रियाकालश्च दीर्घो दृश्यते ॥ ३ ॥ न चारम्भे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org