________________
व्याख्या•
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४८७॥
| दीसइ न सिवादद्धाइ दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतंमि ॥ ४ ॥” इति । 'अत्थेगइया समणा णिग्गंथा एयमहं णो सद्दहंति'त्ति ये च न श्रद्दधति तेषां मतमिदं - नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत्, यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपि क्रियतामसत्त्वाविशेषात् अपि च-ये कृतकरण| पक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्त्तन्ते, तथाहि - नात्यन्तमसत् क्रियतेऽसद्भावात् खरविपाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावैफल्यं च स्यादसत्त्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषेणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाssकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तीति यच्चोक्तं- 'पूर्वमसदेवोत्पद्यमानं दृश्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं सद्भवदृश्यते तदा पूर्वमभूतं सद्भवत् कस्मात्त्वया खरविषाणमपि न दृश्यते, यश्च्चोक्तं- 'दीर्घः क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पनानां परस्परेणेषद्विलक्षणानां सुबह्वीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घः क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं १ येनोच्यते-दृश्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं- 'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् १, शिवकस्थासकादयश्च कार्य१ दृश्यते ( घटादि ) न स्थास्काद्यद्धायां किन्तु तदन्ते ततः क्रियाकाले कार्यं न युक्तं युक्तम् तदन्त एव ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
61
*****
%%%
९ शतके उद्देशः ३३ कृतक्रियमाणता सू ३८७
॥४८७॥
www.jainelibrary.org