________________
मयलाङ्गलप्रतिकृतिधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया'मुखे मङ्गलं येषामस्ति ते मुखमङ्गलिकाः-चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' मागधाः 'इजिसिया पिंडिसिया घंटिय'त्ति क्वचिदृश्यते, तत्र च इज्यां-पूजामिच्छन्त्येषयन्ति वा ये ते इज्यैषास्त एव स्वार्थिकेकप्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका अपि, नवरं पिण्डो-भोजनं, घाण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्तीति, 'ताहिं'ति ताभिर्विवक्षिताभिरित्यर्थः, विवक्षितत्व| मेवाह-'इहाहिं' इष्यन्ते स्मेतीष्टास्ताभिः, प्रयोजनवशादिष्टमपि किश्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह'कंताहिं' कमनीयशब्दाभिरित्यर्थः 'पियाहिं' प्रियार्थाभिः 'मणुन्नाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा | भावतः सुन्दरा इत्यर्थः ताभिः 'मणामाहिं' मनसाऽम्यन्ते-ाम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमास्ताभिः 'ओरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणप्राप्तिसूचिकाभिः 'सिवाहिं' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धन्नाहिं' धनलम्भिकाभिः 'मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' शोभायुक्ताभिः 'हिययगमणिजाहिं' गम्भीरार्थतः सुबोधाभिरित्यर्थः 'हिययपल्हायणिज्जाहिं' हृदयगतकोपशोकादिग्रन्थिविलयनकरीभिरित्यर्थः 'मियमहरगंभीरगाहियाहिं मिता:-परिमिताक्षरा मधुरा:-कोमल शब्दाः गम्भीरामहाध्वनयो दुरवधार्यमप्यर्थ श्रोतॄन् ग्राहयन्ति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभिः 'मियमहुरगंभीरसस्सिरीयाहिंति क्वचिद् दृश्यते, तत्र च मिताः अक्षरतो मधुराः शब्दतो गम्भीरा-अर्थतो ध्वनितश्च स्वश्रीःआत्मसम्पद् यासां तास्तथा ताभिः 'अट्ठसइयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ-बहु
AGRANGALORE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org