________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४८१॥
| उववाइए 'त्ति करणादिदं दृश्यं - 'राइन्ना खत्तिया इक्खागा नाया कोरबा ' इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया | व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्च प्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः ' इक्ष्वाकुवंशविशेषभूताः 'कोरव'त्ति कुरवः| कुरुवंशजाः, अथ कियदन्तमिदं सूत्रमिहाध्येयम् ? इत्याह- 'जाव महापुरिसवग्गुरापरिक्खित्ते' त्ति वागुरा - मृगबन्धनं | वागुरेव वागुरा सर्वतः परिवारण साधर्म्यात् पुरुषाश्च ते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा 'महआस' त्ति महाश्वाः किम्भूताः ? इत्याह- 'आसवरा' अश्वानां मध्ये वराः | 'आसवार'ति पाठान्तरं तत्र 'अश्ववाराः ' अश्वारूढपुरुषाः 'उभओ पासिं'ति उभयोः पार्श्वयोः 'नाग'त्ति नागा| हस्तिनः नागवरा - हस्तिनां प्रधानाः 'रहसंगेल्लि'त्ति रथसमुदायः 'अब्भुग्गयभिंगारे 'त्ति अभ्युद्गतः - अभिमुखमुत्पाटितो | भृङ्गारो यस्य स तथा 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा 'ऊसवियसेयच्छत्ते' उच्छ्रितश्वेतच्छत्रः 'पवीइयसेयचामरवालवीयणीए' प्रवीजिता श्वेतचामरवालानां सत्का व्यजनिका यं अथवा प्रवीजिते' श्वेतचामरे वालव्यजनिके च यं स तथा, 'जहा उववाइए'त्ति करणादिदं दृश्यं - 'कामत्थिया भोगत्थिया' कामौ - शुभशब्दरूपे | भोगाः - शुभगन्धादयः 'लाभस्थिया' धनादिलाभार्थिनः 'इडिसिय'त्ति रूढिगम्याः 'किट्टिसिय'त्ति किल्बिषका | भाण्डादय इत्यर्थः, क्वचित् किट्टिसिकस्थाने 'किविसिय'त्ति पठ्यते 'कारोडिया' कापालिका: 'कारवाहिया कारं| राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः करबाधिता वा 'संखिया' चन्दनगर्भशङ्खहस्ता माङ्ग| ल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिका:- चक्रप्रहरणाः कुम्भकारादयो वा 'नंगलिया' गलावलम्बितसुवर्णादि
|
Jain Education International
For Personal & Private Use Only
९ शतके उद्देशः ३३ दीक्षायै अनुमतिः
सू. ३८५
॥४८१॥
www.jainelibrary.org