________________
मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे -सदृशे ये ते तथा, इह चाङ्को रत्नविशेष इति, 'चामराओ 'त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्दिष्टस्तथैव क्वचिद्रूढत्वादिति ॥ 'मत्तगयमहा मुहाकिइस माणं'ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृतिः - आकारस्तया समानं यत्तत्तथा 'एगाभरणवस णग हियणिज्जोय'त्ति एक:- एकादृश आभरणवसनलक्षणो गृहीतो निर्योगः- परिकरो यैस्ते तथा ॥ 'तप्पढमयाए 'ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'अट्ठट्ठमंगलग' त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि - माङ्गल्यवस्तूनि, अन्ये त्वाहु:अष्टसङ्ख्यानि अष्टमङ्गलकसञ्ज्ञानि वस्तूनि 'जाव दप्पणं'ति इह यावत्करणादिदं दृश्यं - 'नंदियावत्तवद्धमाणगभद्दासणकलसमच्छति तत्र वर्द्धमानकं - शरावं ( व संपुटं ) पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए'त्ति, अनेन च यदुपात्तं तद्वाचनान्तरे साक्षादेवास्ति, तच्चेदं - 'दिवा य छत्तपडागा' दिव्येव दिव्याप्रधाना छत्रसहिता पताका छत्रपताका तथा 'सचामरादर सरइयआलोयदरिसणिज्जा वाउयविजयवेजयंती य | ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शो रचितो यस्यां साऽऽदर्शरचिता आलोकं दृष्टिगोचरं यावद्दृश्यतेऽत्यु|च्चत्वेन या साssलोकदर्शनीया, ततः कर्म्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्जत्ति पाठान्तरे तु सचामरेति भिन्नपदं, तथा दर्शने - जमालेर्दृष्टिपथे रचिता विहिता दर्शनरचिता दर्शने वा सति रतिदा-सुखप्रदा दर्शनरतिदा सा. | चासावालोकदर्शनीया चेति कर्म्मधारयः काऽसौ ? इत्याह-वातोद्धूता विजयसूचिका वैजयन्ती -पार्श्वतो लघुपताकि काद्वययुक्ता पताकाविशेषा वातोद्धूतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ? - 'गगणतलमणुलिहंती 'ति गगनतलं -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org