________________
| वती या सा तथा तां, तत्र ईहामृगा - वृकाः ऋषभाः वृषभाः घ्यालकाः- श्वापदा भुजङ्गा वा किन्नरा-देवविशेषाः रुरवो - मृगवि| शेषाः सरभाः - परासराः वनलता - चम्पकलतादिकाः पद्मलता - मृणालिकाः शेषपदानि प्रतीतान्येव 'खंभुग्गयवइरत्रे|इयापरिगयाभिरामं स्तम्भेषु उद्गता - निविष्टा या वज्रवेदिका तया परिगता - परिकरिता अत एवाभिरामा च-रम्या या सा तथा तां 'विज्जाहरजमलजुयलजंतजुत्तं पिव' विद्याधरयोर्यद् यमलं- समश्रेणीकं युगलं- द्वयं तेनेव यन्त्रेण - सरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा तथा ताम्, आर्षत्वाच्चैवंविधः समासः, 'अच्चीसहस्समालिणीयं' अर्चिः सहस्रमालाः- दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा, स्वार्थिककप्रत्यये च अचिः सहस्रमालिनीका तां, 'रूवगस हस्तकलियं' 'भिसमाणं' दीप्यमानां 'भिभिसमाणां' अत्यर्थ दीप्यमानां 'चक्खुलोयणलेसं' चक्षुः कर्तृ लोकने-अवलोकने |सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमहुर मणहरसर' घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'मुहं कंतं दरिसणिज्जं निउ| णोवियमिसिभिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं परिकम्मितं 'मिसिमिसंतं' चिकचिकायमानं मणिरत्नानां सम्बन्धि यद् घण्टिकाजालं किङ्किणीवृन्दं तेन परिक्षिप्ता - परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षादृश्यत एवेति ॥ 'केसालंकारेणं' ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, 'वत्थालंकारेणं'ति वस्त्ररक्षणालङ्कारेण 'सिंगारागार चारुवेस'त्ति शृङ्गारस्य- रसविशेषस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org