SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४७७॥ 6-64-6 मुरवीमुरजाकारमाभरणं कण्ठमुरवी - तदेव कण्ठासन्नतरावस्थानं प्रालम्बे-झुम्बनकं, वाचनान्तरे त्वयमलङ्कारवर्णकः | साक्षाल्लिखित एव दृश्यत इति, 'रयणसंकडुक्कडं 'ति रत्नसङ्कटं च तदुत्कटं च- उत्कृष्टं रत्नसङ्कटोत्कटं 'गंथिमवेढिमपू| रिमसंघाइमेणं' ति इह ग्रन्थिमं- ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं - वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं येन | वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकिय विभूसियं' ति अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च-सञ्जातविभूषश्चेत्यलङ्कृत विभूषितस्तं, वाचनान्तरे पुनरिदमधिकं 'दद्दरमलयसुगंधिगंधिएहिं गायाई भुकुंडेंति'त्ति दृश्यते, तत्र च दद्दरमलयाभिधानपर्वतयोः सम्बन्धिनस्तदुद्भूतचन्दनादिद्रव्यजत्वेन ये सुगन्धयो गन्धिका - गन्धावासास्ते तथा, अन्ये त्वाहु:-- दर्द्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्ति मलयोद्भवत्वेन मलयजस्य - श्रीखण्डस्य सम्बन्धिनः सुगन्धयो गन्धिका - गन्धास्ते तथा तैर्गात्राणि 'भुकुंडेंति'त्ति उद्धूलयन्ति || ' अणेगखं भसयसन्निविद्वं' ति अनेकेषु स्तम्भशतेषु सन्निविष्टा या सा तथा अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा तां 'लील द्वियसालिभंजियागं'ति लीलास्थिताः शालिभञ्जिकाः - पुत्रिकाविशेषा यत्र सा तथा तां, वाचनान्तरे पुनरिदमेवं दृश्यते- 'अब्भुम्गयसुकयव इरवेश्य तोरणवररइयलीलट्ठियसालिभंजियागं'ति तत्र चाभ्युद्गते - उच्छ्रिते सुकृतबज्रवेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां 'जहा रायप्पसेणहज्जे विमाणवन्नाओ त्ति एवमस्या अपि वाच्य इत्यर्थः, स चायम्- 'ईहामिय उस भतुरगनरमगर विहगवा लग किन्नररुरुस र भचम र कुंजरवणलय पर मलयभत्तिचित्तं' ईहामृगादिभिर्भक्तिभिः - विच्छित्तिभिश्चित्रा-चित्र Jain Education International For Personal & Private Use Only ९ शतके उद्देशः ३३ दीक्षायै अ नुमतिः सू ३८५ ॥४७७॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy