SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ वादिलक्षणेषु 'अपच्छिमे'त्ति अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति एतत् केशदर्शनमपनीतकेशावस्थस्य जमालिकुमारस्य यदर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिमं पौनःपुन्येन जमालिकुमारस्य दर्शनमेतद्दर्शने भविष्यतीत्यर्थः 'दोचंपि'त्ति द्वितीयं वारं 'उत्तरावक्कमणं'ति उत्तरस्यां दिश्यपक्रमणं-अवतरणं यस्मात्तद् उत्तरापक्रमणम्-उत्तराभिमुखं पूर्व तु पूर्वाभिमुखमासीदिति 'सीयापीयएहिंति रूप्यमयैः सुवर्णमयैश्चेत्यर्थः 'पम्हलसुकुमालाए'ति पक्ष्मवत्या सुकुमालया चेत्यर्थः 'गंधकासाइए'त्ति गन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः 'नासानीसासे'त्यादि नासानिःश्वासवातवाह्यमतिलघुत्वात् चक्षुहर-लोचनानन्ददायकत्वात् चक्षुरोधकं वा घनत्वात् 'वन्नफरिसजुत्तं'ति प्रधानवर्णस्पर्शमित्यर्थः हयलालायाः सकाशात् पेलवं-मृदु अतिरेकेण-अतिशयेन यत्तत्तथा कनकेन खचितंमण्डितं अन्तयोः-अञ्चलयोः कर्म-वानलक्षणं यत्तत्तथा 'हा'ति अष्टादशसरिक 'पिण«ति'पिनह्यतः पितराविति शेषः | 'अद्धहारंति नवसरिकम् ‘एवं जहा सूरियाभस्स अलंकारो तहेव'त्ति, स चैवम्-'एगावलिं पिणद्धंति एवं मुत्तावलि कणगावलिं रयणावलि अंगयाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुद्दयार्णतयं वच्छसुत्तं मुरविं कंठमुरविं पालंब कुंडलाई चूडामणि ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली-केवलमुक्ताफलमयी कनकावली-सौवर्णमणिकमयी रत्नावली-रत्नमयी अङ्गदं केयूरं च बाह्वाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थतोक्का तथाऽपीहाऽऽकारविशेषाद् भेदोऽवगन्तव्यः, कटकं-कलाचिकाभरणविशेषः त्रुटिक-बाहुरक्षिका दशमुद्रिकानन्तकं-हस्ताङ्गुलीमुद्रिकादशकं वक्षःसूत्रं-हृदयाभरणभूतसुवर्णसङ्कलक 'वेच्छासुत्तंति पाठान्तरं तत्र वैकक्षिकासूत्रम्-उत्तरासङ्गपरिधानीयं सङ्कलक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy