SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आख्यापनाभिः - सामान्यतो भणनैः 'पन्नवणाहि यत्ति प्रज्ञापनाभिश्च - विशेषकथनैः 'सन्नवणाहि य'ति सज्ञापनाभिश्च सम्बोधनाभिः 'विन्नवणाहि य'त्ति विज्ञापनाभिश्च - विज्ञप्तिकाभिः सप्रणयप्रार्थनैः, चकाराः समुच्चयार्थाः, 'आघवित्तए व 'त्ति आख्यातुम्, एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिं 'ति विषयाणां प्रतिकूला :- तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजमभउधेयणकरीहिं'ति संयमाद्भयं -भीतिं उद्वेजनं च - चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सच्चे'ति सद्भ्यो हितत्वात् 'अणुत्तरे'त्ति अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह - 'केवल' त्ति केवलं - अद्वितीयं 'जहावस्सए' त्ति एवं चेदं तत्र सूत्रं - 'पडिपुन्ने' अपवर्गप्रापकगुणैर्भृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिकं वा न्यायानपेतत्वात् 'संसुद्धे' सामस्त्येन शुद्धं | 'सलगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितार्थप्रात्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः 'निज्जाणमग्गे' सिद्धिक्षेत्रगमनोपायः, 'निघाणमग्गे' सकलकर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम् 'अविसंधि' प्रवाहेणाव्यवच्छिन्नं 'सङ्घदुक्खप्प हीणमग्गे' सकलाशर्मक्षयोपायः 'एत्थं ठिया जीवा सिज्झंति बुज्यंति मुचंति परिनिधायंति'त्ति 'अहीवेगंत दिट्ठीए' अहेरिव एकोऽन्तो- निश्चयो यस्याः सा (एकान्ता सा) दृष्टि: - बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता - एकनिश्चया | दृष्टिः- दृग् यस्य स एकान्तदृष्टिकः 'खुरो इव एगंतधाराए' त्ति एकान्ता - उत्सर्गलक्षणैक विभागाश्रया धारेव धारा- क्रिया यत्र तत्तथा, 'लोहमये' त्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुये 'त्यादि, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy