________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
KRASIA
९शतके उद्देशः३३. दीक्षायै अ
नुमतिः सू ३८४
॥४७१॥
वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे'त्यादि, गङ्गा वा-गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमिति भावः, एवं समुद्रोपम| प्रवचनमपि, 'तिक्खं कमियत्वं'ति यदेतत् प्रवचनं तत्तीक्ष्णं खड्गादि क्रमितव्यं, यथा हि खगादि ऋमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयवंति 'गुरुकं' महाशिलादिकं 'लम्बयितव्यम्' अवलम्बनीयं रज्वादिनिबद्धं हस्तादिना धरणीयं प्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेर्धारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराक 'व्रतं' नियमः 'चरितव्यम्' आसेवितव्यं, यदेतत् प्रवचनानुपालनं तद्बहुदुष्करमित्यर्थः । अथ कस्मादेतस्य दुष्करत्वम् ?, अत्रोच्यते 'नो'इत्यादि, आधार्मिकमिति, एतद्वा 'अज्झोयरएइ वा' अध्यवपूरक इति वा, तल्लक्षणं चेदं-स्वार्थ मूलाद्रहणे कृते साध्वाद्यर्थमधिकतरकणक्षेपणमिति 'कतारभत्तेइ वत्ति कान्तारंअरण्यं तत्र यद्भिक्षुकाथै संस्क्रियते तत्कान्तारभक्तम् , एवमन्यान्यपि, 'भोत्तए वत्ति भोक्तुं 'पायए वत्ति पातुं वा 'नालं' न समर्थः शीताद्यधिसोढुमिति योगः, इह च क्वचित्प्राकृतत्वेन द्वितीयार्थे प्रथमा दृश्या, 'वाल'त्ति व्यालान्श्वापदभुजगलक्षणान् ‘रोगायंकेत्ति इह रोगाः-कुष्ठादयः आतङ्का-आशुघातिनः शूलादयः 'कीवाणं ति मन्दसंहननानां 'कायराणं'ति चित्तावष्टम्भवर्जितानाम् अत एव 'कापुरिसाणं'ति, पूर्वोक्तमेवार्थमन्वयव्यतिरेकाभ्यां पुनराह-दुरणु'इत्यादि, 'दुरनुचरं' दुःखासेव्यं प्रवचनमिति प्रकृतं धीरस्स'त्ति साहसिकस्य तस्यापि 'निश्चितस्य' कर्त
॥४७१
NARRATO
Jain Education International
For Personal & Private Use Only
www.janelibrary.org