________________
परिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः, 'विसुद्धकुलवंससंताणतंतुवद्धणपगम्भवयभाविणीओ | विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तारितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तद्बद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनं तस्य । |भावः-सत्ता विद्यते यासां तास्तथा 'विसुद्धकुलवंससंताणतंतुवद्धणपगम्भुन्भवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगर्भास्तेषां य उद्भवः-सम्भूतिस्तत्र यः प्रभावः-सामर्थ्य स यासा-| मस्ति तास्तथा 'मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः 'अह तुज्झ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्ले'त्ति विषयेषु-शब्दादिषु विगतव्यवच्छिन्नम्-अत्यन्तक्षीणं कौतूहलं यस्य स तथा ॥'माणुस्सगा कामभोग'त्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, 'उच्चारे'त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा 'अमणुन्नदुरूवमुत्तपूयपुरीसपुन्ना' अमनोज्ञाश्च ते| | दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूपं-विरूपं पूतिकं च-कुथितं, 'मयगंधुस्सासअसुभनिस्सा-18 ४ सउच्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धिः स चासावुच्छासश्च मृतगन्ध्युच्छासस्तेनाशुभनिःश्वासेन चोद्वेगजनकाहै उद्वेगकारिणो जनस्य येते तथा, उच्छासश्च-मुखादिना वायुग्रहणं निःश्वासस्तु-तन्निर्गमः 'बीभच्छ'त्ति जुगुप्सोत्पा-1 |दकाः 'लहुस्सग'त्ति लघुस्वका:-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्य-शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन-अवस्थानेन दुःखा-दुःखरूपा येते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः, 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन च-गाढशरीरायासेन ये
-16
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org